SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ उत्तराध्ययन-मूलसूत्रम्-२-१८/६१० केवललक्ष्मी परिनिर्वृत इति शेषः, इति सप्तदशसूत्रार्थः । इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्ठुमाहमू.(६११) कहं धीरो अहेऊहिं, उम्मत्तो व्व महिं चरे?। एए विसेसमादाय, सूरा दढपरक्कमा॥ वृ.'कथं' केन प्रकारेण 'धीरः' उक्तरूप: 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनालजालभाषितया 'महीं' पृथ्वी 'चरेत्' भ्रमेत् ?, नैव चरेदित्यर्थः, किमिति?, ये 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा मनसि संप्रधार्येतियावत् शूरा दृढप्रराक्रमा एतदेवाश्रितवन्त इति शेषः, अयमभिप्रायः-यथैते महात्मनो विशेषमादाय कुवादिपरिकल्पिकक्रियावाद्यादिदर्शनपरिहारतो जिनशासन एव निश्चितमतयोऽभूवंस्तथा भवताऽपि धीरेण सताऽस्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ किञ्चमू. (६१२) अच्चंतनियाणखमा, एसा मे भासिया वई। . अतरिंसु तरंतेगे, तरिस्संति अनागया। वृ.अत्यन्तम्-अतिशयेन निदानैः-कारणैः, कोऽर्थः?-हेतुभिर्न तु परप्रत्ययेनैव, क्षमायुक्ताऽत्यन्तनिदानक्षमा, यद्वा निदानं-कर्ममलशोधनं तस्मिन् क्षमा-समर्था 'एषा' अनन्तरोक्ता पाठान्तरतः 'सर्वा' अशेषा सत्या वा 'मे' मया 'भाषिता' उक्ता 'वाग' वाणी जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाऽङ्गीकृतया अतीर्घः' तीर्णवन्तः तरन्ति 'एके' अपरे, पाठान्तरतोऽन्ये, सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वेत्थमभिधानमिति, तथा तरिष्यन्ति 'अनागताः' भाविनो, भवोदधिमिति सर्वत्र शेष इति सूत्रार्थः । यतश्चैवमतःमू.(६१३) कहं धीरे अहेऊहिं, अद्दायं परियावसे। सव्वसंगविनिम्मुक्को, सिद्धे भवइ नीरए । तिबेमि॥ . वृ.कथं धीरोऽहेतुभिः 'आदाय' गृहीत्वा, क्रियादिवादिमतमिति शेषः 'पर्यावसेत्' परीतिसर्वप्रकारमावसेत्-तत्रैव निलीयेत, नैव तत्राभिनिविष्टो भवेदिति भावः, पठ्यते च-'अत्ताणं परियावसि'त्ति आत्मानं पर्यावासयेद्, अहेतुभिः कथमात्मानमहेत्वावासं कुर्यात् ?, नैव कुर्यादित्यर्थः । किं पुनरित्थमकरणे फलमित्याह-सर्वे-निरवशेषाः सजन्ति कर्मणा सम्बध्यन्ते जन्तव एभिरिति सङ्गाः-द्रव्यतो द्रविनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादस्तैर्विनिर्मुक्तो-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः, तदनेनाहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः । इत्थं तमनुशास्य गतो विवक्षितं स्थानं क्षत्रियः, शेषसञ्जयवक्तव्यतां त्वाह नियुक्तिकृत्नि.[ ४०५] काऊण तवच्चरणं बहूनि वासाणि सो धुयकिलेसो। .. तं ठाणं संपत्तो जं संपत्ता न सोयंति॥ वृ. सुगमैव, नवरं धुताः-अपनीताः क्लिश्यन्त्येषु सत्सु जन्तव इति क्लेशा:-रागादयो येन स धृतक्लेशो, यत्संप्राप्ता न शोचन्ते, शोकहेतुशरीरमानसदुःखाभावादिति गाथार्थः॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy