SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१ अध्ययनं-१८,[नि. ४०४] हित्वा 'कामाईति चस्य गम्यमानत्वात् 'कामांश्च' विषयान् प्राकृतत्वान्नपुंसकनिर्देशः, पव्वए'त्ति प्राव्राजीत्। 'सगरोऽवी' त्यादि सर्व मपि स्पष्टं, नवरं 'सागरान्तं' समुद्रपर्यन्तं दिक्त्रये, अन्यत्र तु हिमवत्पर्यन्तमित्युपस्कारः, तथा 'एश्वर्यम्' आज्ञैश्वर्यादि केवलं' परिपूर्णमनन्यसाधारणं वा 'दयया' संयमेन परिनिर्वृतः' इहैव विध्य्तकषायानलत्वाच्छीतीभूतो मुक्तो वा । तथा 'अरो य'त्ति अरनामा च तीर्थकृच्चक्रवर्ती अरयं'ति रतस्य रजसो वाऽभावरूपमरतमरजो वा, पाठान्तरतोऽरसं वा-शृंगारादिरसाभावं, प्राप्तः सन् 'प्राप्तः' गतो गतिमनुत्तरां-मुक्तिमित्यर्थः॥ तथा त्यक्त्वोत्तमान् भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्यं, 'महापद्म:' महापद्मनामा 'चरे'त्ति आचरत् ॥ तथा एकं छत्रं-नृपतिचिह्नमस्यामित्येकच्छत्रां तां, कोऽर्थः ?-अविद्यमानद्वितीयनृपति 'महीं' पृथ्वी प्रसाध्य' वशीकृत्येति सम्बन्धः, 'माणनिसूरणो'त्ति दप्तारात्यहङ्कारविनाशक: 'मनुष्येन्द्रः' इति चक्री। तथा अन्नितो'त्ति 'अन्वितः' युक्तः 'सुपरिच्चाइ'त्ति सुष्ठ-शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति सम्बन्धः, 'चरि'त्ति अचारीच्चरित्वा च जयनामा चक्रीति शेषः प्राप्तो गतिमनुत्तराम्। तथा दशार्णो नाम देशस्तद्राज्यंतदाधिपत्यं 'मुदितं' सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'णः' प्राग्वत् 'चरे'त्ति अचारीत्, अप्रतिबद्धविहारतया विहतवानित्यर्थः, साक्षाच्छक्रेण 'चोदितः' अधिकविभूतिदर्शनेन धर्म प्रति प्रेरितः॥ तथा 'निष्क्रिान्ताः' प्रव्रजिता निष्क्रम्य च 'श्रामण्ये' श्रमणभावे 'पर्युपस्थिताः' तदनुष्ठानं प्रत्युद्यत अभूवन्निति शेषः । तथा सौवीरेषु राजवृषभ:-तत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चेच्च'त्ति त्यक्त्वा राज्यमिति शेषः प्राग्वत् 'मुनिः' त्रैकाल्यावस्थावेदी सन् 'चरे'त्ति अचारीत्, कोऽसौ ?-'उदायनो'त्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याहप्राप्तो गतिमनुत्तराम्॥ __ 'तथैव' तेनैव प्रकारेण 'काशिराजः' काशिमण्डलाधिपतिः श्रेयसि-अतिप्रशस्ये सत्येसंयमे पराक्रमः- सामर्थ्य यस्यासौ श्रेयः-सत्यपराक्रमः ‘पहणे'त्ति प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहावनम्॥ ___ तथैव 'विजयः' इति विजयनामा अनट्ठा कित्ति पव्वए'त्ति, आर्षत्वाद् अनातः-आर्तध्यानविकलः कीर्त्यादीनानाथादिदानोत्थया प्रसिद्धयोपलक्षितः सन् यद्वा अनार्ता-सकलदोषविगमतोऽबाधिता कीतिरस्येत्यनातकीर्तिः सन्, पठ्यते च 'आनट्ठाकिइपव्वई'त्ति, आज्ञाआगमोऽर्थशब्दस्य हेतुवचनस्यापि दर्शनादर्थो-हेतुरस्याः सा तथाविधा आकृतिरर्थान्मुनिवेषात्मिका यत्र तदाज्ञार्थाकृति यथा भवत्येवं प्रावाजीद्गुणैः-राज्यगुणैः शब्दादिभिर्वा समृद्धसंपन्नं गुणसमृद्धं, पूर्वत्र तुशब्दस्यापिशब्दार्थत्वाद्यवहितसम्बन्धत्वाच्च गुणसमृद्धमपि। __ तथा 'अद्दाय'त्ति आर्षत्वाद् 'आदित' गृहीतवांस्तद्गमनेन स्वीकृतवान् शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिरपेक्षमिति योऽर्थः, "शिरं'ति शिर इव शिरः सर्वजगदुपरिवर्तितया मोक्षः, पठ्यते च-'आदाय सिरसो सिरिं'ति, अत्र च आदाय' गृहीत्वा 'शिरः श्रियं' सर्वोत्तमां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy