________________
अध्ययनं - ३४, [ नि. ५४९ ]
२३१
सम्प्रदायः -- "वन्नाहिगारे जो एत्थ कोइलच्छदो सो तेलकंटतो भन्नइ "त्ति, क्वचित्तु पठ्यते च - 'कोइलच्छवि' त्ति, तत्र कोकिलः - अन्यपुष्टस्तस्य छविस्तत्संनिभा, पारापतः-पक्षिविशेषस्तस्य ग्रीवा - कन्धरा तन्निभा कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिच्च लोहितेति भाव:, तथा च प्रज्ञापना - "काऊलेसा काललोहितेन वन्नेणं साहिज्जइ "त्ति, हिंगुलुयधाउसंकासा, तरुणाइच्चसंनिभा । सुयतुंडपईवनिभा, तेउलेसा उ वन्नओ ॥
मू. ( १३८९ )
वृ. हिङ्गलुक :- प्रतीतो धातु: - पाषाणधात्वादिस्तत्सङ्काशा, तरुण इहाभिनवोदितः आदित्य:- सूर्यस्तत्संनिभा, शुकः - प्रसिद्धस्तस्य तुण्डं मुखं शुकतुण्डं तच्च प्रदीपश्च तन्निभा वा, पठन्ति च - 'सुयतुंडालत्तदीवाभा' अन्ये तु 'सुयतुंडग्गसंकासा' द्वयमपि स्पष्टं, तेजोलेश्या तु वर्णतो रक्तेति भावार्थः ।
मू. (१३९० )
हरियाल भेयसंकासा, हलिद्दाभेदसंनिभा । सनासणकुसुमनिभा, पम्हलेसा उ वन्नओ ॥ संखंककुंदसंकासा, खीरधारसमप्पभा । रययहारसंकासा, सुक्कलेसा उ वन्नओ ॥
मू. ( १३९१ )
वृ. हरितालो धातुविशेषस्तस्य भेदो- द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि वर्णप्रकर्षो भवतीतिभेदग्रहणं, हरिद्रेह पिण्डहरिद्रा तस्या भेदस्तत्संनिभा, सणोधान्यविशेषोऽसनोबीयकस्तयोः कुसुमं तन्निभा पद्मलेश्या तु वर्णत: पीतेति गर्भार्थः । शङ्ख::- प्रतीतोऽङ्कोमणिविशेषः कुन्द:- कुन्दकुसुमं तत्सङ्काशा, क्षीरं- दुग्धं तूलकं- तूलं पाठान्तरतः पूरो वाक्षीरप्रवाहः, अन्ये तु 'धारि'त्ति पठन्ति, तद्ग्रहणं तु भाजनस्थस्य हि तद्वशादन्यथात्वमपि संभवतीति तत्समप्रभा, रजतं रूप्यं हारो - मुक्ताकलापस्तत्सङ्काशा शुक्ललेश्या तु वर्णतः शुक्लेति हृदयमिति सूत्रषट्कार्थः ॥ इत्युक्तो वर्णः सम्प्रति रसमाह
मू. (१३९२ ) जह कडुयतुंबरसो निंबारसो कडुयरोहिणिरसो वा । इत्तोवि अनंतगुणो रसो उ कण्हाइ नायव्वो ।
वृ. 'यथे 'ति सादृश्ये ततश्च यादृक् कटुकतुम्बकस्य रस- आस्वादः कटुकतुम्बकरसः 'निम्बरसः' प्रतीतः कटुका चासौ रोहिणी च - त्वग्विशेषः कटुकरोहिणी कटुकत्वाव्यभिचारित्वेऽपि तद्विशेषणमतिशयख्यापकं तद्रसो वा, औषधीविशेषो वा कटुकेह गृह्यते, 'यथे 'ति सर्वत्रापेक्षते, इतोऽपि कटुकतुम्बकरसादेरनन्तेन- अनन्तराशिना गुणनं गुणो यस्यासावनन्तगुणो 'रसस्तु' आस्वादः ‘कृष्णायाः ' कृष्णलेश्यायाः 'ज्ञातव्यः' अवबोद्धव्योऽतिकटुक इति तात्पर्यम् । मू. ( १३९३ ) जह तिकडुयस्स य रसो तिक्खो जह हत्थिपिप्पलीए वा । इत्तोवि अनंतगुणो रसो उनीलाइ नायव्वो ॥
वृ. 'यथा' यादृश: 'त्रिकटुकस्य' प्रसिद्धस्य रसस्तीक्ष्णः कटुर्यथा 'हस्तिपिप्पल्या वा' गजपिप्पल्या वाऽतोऽप्यनन्तगुणो रसस्तु नीलाया ज्ञातव्योऽतिशयतीक्ष्ण इति हृदयम् । मू. ( १३९४ ) जह तरुणअंबयरसो तुवरकवित्थस्स वावि जारिसओ । इत्तोवि अनंतगुणो रसो उ काऊइ नायव्वो ॥
For Private & Personal Use Only
-
Jain Education International
www.jainelibrary.org