________________
२३२
उत्तराध्ययन-मूलसूत्रम्-२-३४/१३९४ वृ. यथा तरुणम्-अपरिपक्वं तच्च तदाम्रकं च-आम्रफलं तद्रसः, तुवरं-सकषायं पाठान्तरतः, आर्द्रत्वाद्, उभयत्र चार्थादपक्वं तच्च तत्कपित्थं च-कपित्थफलं तस्य 'वा' विकल्पे 'अपि' पूरणे यादृशको रस इति प्रक्रमः अतोऽप्यनन्तगुणो रसस्तु ‘काऊए'त्ति कापोताया ज्ञातव्योऽतिशयकषाय इत्याशयः। मू.(१३९५) जह परियणंबगरसो पक्ककवित्थस्स वावि जारिसओ।
इत्तोवि अनंतगुणो रसो उतेऊइ नायव्यो। वृ.यथा परिणतं-परिपक्वं यदाम्रकं तद्रसः पक्वकपित्थस्य वाऽपि यादृशको रसोऽतोऽप्यनन्तगुणो रसस्तु 'तेऊए'त्ति तेजोलेश्याया ज्ञातव्यः आम्लः किञ्चिन्मधुरश्चेत्यैदम्पर्य । मू.(१३९६) वरवारुणीइ व रसो विविहाण व आसवाण जारिसओ।
महुमेरगस्स व रसो इत्तो पम्हाइ परएणं॥ वृ.वरवारुणी-प्रधानसुरा तस्यावा रसो यादृशक इति योगः 'विविधानां वा' नानाप्रकाराणाम् 'आसवानां' पुष्पप्रसवमद्यानां वा यादृशको रस इति सम्बन्धः, 'महुमेरयस्स व रसो'त्ति मधुमद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकोऽतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः 'परकेणं ति अनन्तानन्तगुणत्वात्तदतिक्रमेण वर्तक इति गम्यते, अयं च किञ्चिदम्लकषायो माधुर्यवांश्चेति भावनीयं, पाठान्तरतोऽप्यनन्तगुणो रसस्तु पद्माया ज्ञातव्यः। मू.(१३९७) खज्यूरमुद्दियरसो खीररसो खंडसक्कररसो वा।
इत्तो उ अनंतगुणो रसो उसुक्काइ नायव्वो। वृ. खजूरं च-पिण्डखजूरादि मृद्वीका च-द्राक्षा एतद्रसः तथा 'क्षीररसः' प्रतीतः खण्ड 'च-इक्षुविकार: शर्करा च-काशादिप्रभवा तद्रसो वा यादृश इति शेषः, अतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तरमधुर इति गर्भ इति सूत्रषट्कार्थः ।। उक्तो रसः, सम्प्रति गन्धमाहमू.(१३९८) जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स।
इत्तो वि अनंतगुणो लेसाणं अप्पसत्थाणं॥ वृ. यथा गवां मृतकं-मृतकशरीरं तस्य गन्धः श्वमृतकस्य वा तथा यथाऽहि:-सर्पस्तन्मृतकस्य गन्ध इति सम्बन्धः, सूत्रत्वान्मृतकशब्दे कलोपः अतोऽपि एतत्प्रकारादपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानाम् 'अप्रशस्तानाम' अशुभानां कोऽर्थः ?-कृष्णनीलकापोतानां, गन्ध इति प्रक्रमः, इह चलेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति तद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्तः। मू. (१३९९) जह सुरहिकुसुमगंधो गंधवासाण पिस्समाणाणं।
इत्तोवि अनंतगुणो पसत्थलेसाण तिण्हपि॥ वृ. यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्धपुष्पाणां गन्धः-परिमल: सुरभिकुसुमगन्धः, तथा गन्धाश्च-कोष्टपुटपाकनिष्पन्ना वासाश्च-इतरेगन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां, पाठान्तरतश्च गन्धानां च, 'पिष्यमाणानां' संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, 'अतोऽपि' एतत्प्रका
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org