________________
२३०
उत्तराध्ययन-मूलसूत्रम्-२-३४/१३८३ . वृ. लेश्याभिधायकमध्ययनं लेश्याऽध्ययनं तत् 'प्रवक्ष्यामि' प्रकर्षेण-तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये, आनुपूर्व्या यथाक्रममिति च प्राग्वत्, तत्र च षण्णामपि' घट्सङ्ख्यानामपि वक्ष्यमाणभेदेन कर्मलेश्यानां' कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभवान्' रसविशेषान शृणुत मम कथयत इति शेष इति सूत्रार्थः । एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाहमू. ( १३८४) नामाइं वनरसगंधफासपरिणामलक्खणं ठाणं।
ठिई गई च आउं, लेसाणं तु सुनेह मे।। दारगाहा॥ वृ. नामानि' अभिधानानि वर्णश्च-कृष्णादी रसश्च-तिक्तादिर्गन्धश्च-सुरभ्यादिः स्पर्शश्चकर्कशादि परिणामश्चजघन्यादिः लक्षणं च-पञ्चाश्रवासेवनादि, एषां समाहारे वर्णगन्धरसस्पर्शपरिणामलक्षणं तत्, 'स्थानम्' उत्कर्षापकर्षरूपं 'स्थितिम्' अवस्थानकालं 'गतिं च' नरकादिकां यतो याऽवाप्यते 'आयुः' जीवितं च यावति च तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां 'तुः' पूरणे 'सुणेह मे' त्ति प्राग्वदिति सूत्रार्थः ।।
अत्र च 'यथोद्देशं निर्देश' इति न्यायतो नामान्याहमू.(१३८५). किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य।
सुक्का लेसा य छट्ठा उ, नामाइंतु जहक्कम। वृ. किण्हासूत्रं स्पष्टमेव॥ प्रत्येकमासां वर्णानाहमू.(१३८६) जीमूतनिद्धसंकासा, गवलरिट्ठगसंनिभा।
खंजंजननयननिभा, किण्हलेसा उवण्णओ।। वृ. 'जीमूयनिद्धसंकास'त्ति प्राकृतत्वात् स्निग्धश्चासौ सजलत्वेन जीमूतश्च-मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशतेयर्णतः प्रकाशत इति स्निग्धजीमूतसङ्काशा तत्सदृशीतियावत्, तथा गवलं-महिषभृङ्गं रिष्ठो-द्रोणकाकः स एव रिष्ठक: यद्वा रिष्टको नाम फलविशेषस्तत्संनिभातच्छाया, 'खंजण'त्ति खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भूतमञ्जनं च-कज्जलं नयनंलोचनम् इह चोपचारात्तेदकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या 'तुः' विशेषणे स च शेषलेश्याभ्यो वर्णकृतं विशेषं द्योतयति, यद्वा 'तुः' अवधारणे भिन्नक्रमश्च ततः 'वर्णत एव' वर्णमेवाश्रित्य न तु रसादीन्, एवमुत्तरत्रापि। मू.(१३८७) नीलासोगसंकासा, चासपिच्छसमप्पभा।
वेरुलियनिद्धसंकासा, नीललेसा उ वनाओ। वृ. नीलश्चासावशोकश्च-वृक्षविशेषो नीलाशोकस्तत्सङ्काशा, रक्ताशोकव्यवच्छेदार्थं च नीलविशेषणं, चासः-पक्षिविशेषस्तस्य पिच्छं-पतत्रं तत्समप्रभा-तत्तुल्यद्युतिः, स्निग्धोदीप्तो वैडूर्यो-मणिविशेषस्तत्सङ्काशा तत्सदृशी पदविपर्ययः प्राग्वत् नीललेश्या तु वर्णतो नीलेति तात्पर्यम्। मू.(१३८८) अयसीपुप्फसंकासा, कोइलच्छदसंनिभा।
पारेवयगीवनिभा, काउलेसा उ वनओ। वृ. अतसी-धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदः-तैलकण्टकः, तथा च वृद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org