________________
१९०
उत्तराध्ययन-मूलसूत्रम्-२-३१/१२३० भिरुत्पाद्यन्त इत्युपसर्गास्तान्, तथा तेरिच्छमाणुसे'त्ति तिरश्चामेते भयप्रद्वेपाहारहेत्वपत्यलयनसंरक्षणहेतोस्तैः क्रियमाणत्वात्तैरश्चा: तथा मानुषाणामेते हासप्रद्वेषविमर्शकुशीलप्रतिसेवनात्मकनिमित्ततस्तैर्विधीयमानत्वान्मानुषकाश्च तैरश्चमानुपकास्तान् उपलक्षणत्वात्पूर्वत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाऽऽत्मसंवेदनीयांश्च घट्टनप्रपतनस्तम्भनश्लेषणोद्भवान् यो भिक्षुः 'सहते' सम्यगध्यास्ते। मू.(१२३१) विगहाकसायसन्नाणं, झाणाणं च दुयं तहा।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.विरुद्धा विरूपा वा कथा विकथा, सा च स्त्रीभक्तजनपदनृपतिभेदतश्चतुर्धा, कषायाःक्रोधमानमायालोभाः सञ्जा-आहारभयमैथुनपरिग्रहाख्याः, एषां कृतद्वन्द्वानां प्रत्येकं चतुष्कमिति शेषः, 'झाणाणं च'त्ति प्राकृतत्वाद् ध्यानयोश्च द्विकमार्त्तरौद्ररूपं तथा य भिक्षुः ‘वर्जयति' परिहरति, चतुर्विधत्वाच्च ध्यानस्यात्र प्रस्तावेऽभिधानम्,। मू.(१२३२) वएसु इंदियत्थेसु, समिईसु किरियासु य।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ।। वृ.'व्रतेषु' हिंसाऽनृतस्तेयाब्रह्मपरिग्रहविरतिलक्षणेषु इन्द्रियार्थेषु' शब्दरूपरसगन्धस्पर्शेषु 'समितिषु' समित्यध्ययनाभिहितासु च क्रियासु-कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातरूपासु, पठन्ति च 'समीतीसु य तहेव य'त्ति, अत्र च चशब्दाक्रियासु चेति यो भिक्षुः यतते' यत्नं कुरुते यथावत्परिपालनातो व्रतसमितिषु माध्यस्थ्यविधानतश्चेन्द्रियाथेषु परिहारतश्च क्रियासु। मू.(१२३३) लेसासु छसु काएसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.'लेश्यासु' वक्ष्यमाणरूपासु षट्सु कायेषु' पृथिव्यादिषु वक्ष्यमाणेष्वेव षट्के' षट्परिमाणे 'आहारकारणे' वेदनादावुक्तरूपे यो भिक्षुः ‘यतते' यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते। मू.(१२३४) पिंडुग्गहपडिमासु, भयट्ठाणेसु सत्तसु।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.'पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाभिग्रहरूपासु संसृष्टादिष्वनन्तराध्ययनोक्तासु सप्तस्विति संबध्यते, तथा 'भयस्थानेषु' भयस्य-भयमोहनीयसमुत्थात्मपरिणामस्योत्पत्तिनिमित्ततयाऽऽश्रयेषु इहलोकादिषु प्रागुक्तरूपेषु 'सप्तसु' सप्तसङ्खयेषु यो भिक्षुः 'यतते' एकत्र तु पालनातोऽन्यत्र तद्वशेन भयाकरणतः । मू.(१२३५) मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.मदा-जातिमदादयः प्रागभिहिता अष्टौ तेषु, प्रतीतत्वाच्चेहान्यत्र च सूत्रे सङ्घयानभिधानं, ब्रह्म-ब्रह्मचर्यं तस्य गोपनं गुप्तिर्यकाभिस्ता ब्रह्मगुप्तयो गमकत्वाद्बहुव्रीहिस्तासु वसत्यादिषु नवसु, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org