________________
१८९
अध्ययनं-३१,[ नि. ५२२]
वृ. चरणस्य विधिः आगमोक्तन्यायः चरणविधिस्तं प्रवक्ष्यामि जीवस्य 'तुः' अवधारणे भिन्नक्रमस्ततः 'सुहावहं'ति सुखावहमेव शुभावहमेव वा, यथा चैतदेवं तथा फलोपदर्शनद्वारेणाह-यं 'चरित्वा' आसेव्य बहवो जीवाः 'तीर्णाः' अतिक्रान्ताः 'संसारसागरं' भवसमुद्र मुक्तिमवाप्ता इत्यभिप्राय इति सूत्रार्थः ।। मू.(१२२७) एगओ विरइं कुज्जा, एगओ अपवत्तणं ।
___ अस्संजमे नियत्तिं च, संजमे य पवत्तणं ।। वृ.तत्र च 'एकतः' एकस्मात् स्थानाद् विरतिं विरमणमुपरममितियावत् 'कुर्यात्' विदध्यात् 'एकतश्च' एकस्मिश्च, आद्यादित्वात्सप्तम्यन्तात्तसिः, 'व:' समुच्चये भिन्नक्रमः, प्रवर्त्तनं च कुर्यादिति सम्बन्धः । एतदेव विशेषत आह-'असंयमात्' हिंसादिरूपात् पञ्चम्यर्थे सप्तमी 'निवृत्तिं च' परिहाररूपां 'संयमे' उक्तरूपे चस्य भिन्नक्रमत्वात्प्रवर्तनं च कुर्यादित्यनुवर्त्तते, चशब्दादुभयत्र परस्परापेक्षया समुच्चये। मू.(१२२८) रागद्दोसे य दो पावे. पावकम्मपवत्तणे।
जे भिक्खू रंभई निच्चं, से न अच्छइ मंडले ॥ वृ. तथा रागद्वेषौ' उक्तरूपौ 'चः' पूरणे 'द्वौ' द्विसङ्घयौ, एतदभिधानं च प्राकृते द्वित्वबहुत्वयोः संदिग्धत्वाद् उक्तार्थानामप्यपूपौ द्वावानयेत्यादिवल्लोके प्रयोगदर्शनाच्च, 'पापौ' कोपादिपापप्रकृतिरूपत्वात् पापकर्माणि-मिथ्यात्वादीनि प्रवर्त्तयतो-जनयत इति पापकर्मप्रवर्तकौ यः 'भिक्षुः' तपस्वी 'रुणद्धि' उदयस्य कथञ्चिदुदितयोर्वा प्रसरस्य निराकरणतस्तिरस्कुरुते 'नित्यं' सदा सः 'नास्ते' न तिष्ठति मण्डले, पठन्ति च-‘से न गच्छइ मंडले'त्ति 'न' नैव गच्छति' याति भ्राम्यतीति योऽर्थः, उभयत्र च मण्डलशब्दस्य वृद्धव्याख्या-मण्डलग्रहणाच्चतुरन्तः संसार: परिगृह्यते, मुक्तिपदप्राप्तिश्चात्र हेतुः, एवमुत्तरत्र सूत्रेष्वपि नित्यमित्यादि मू.(१२२९) दंडाणं गारवाणं च, सल्लाणं च तियं तियं ।
__ जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.दण्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुष्प्राणिहितमानसादिरूपा मनोदण्डादयः, उक्तं हि
"जह लोए दंडिज्जइ दव्वं हीरइ य वज्झए यावि।
___इय दंडंतऽप्पाणं मणमाई दुप्पणिहिएहिं ।।" तेषां त्रिकं' मनोदण्डवान्दण्डकायदण्डरूपं, तथा गुरुः-लाभाभिमानाध्मातचित्त आत्मैव तावास्तस्य वैतान्यध्यवसानानि गौरवाणि तेषां 'त्रिकं' ऋद्धिगौरवरसगौरवसातगौरवात्मकं, तथा शल्यते-अनेकार्थत्वाद्बाध्यते जन्तुरेभिरिति शल्यानि तेषां च 'त्रिकं' मायाशल्यनिदानशल्यमिथ्यात्मकम्, उभयत्र 'चः' समुच्चये, त्रिकं त्रिकमिति च प्रत्येकं त्रैविध्याभिधानतो व्याख्यातमेव, यो भिक्षुः 'त्यजति' वर्जयति। मू.(१२३०) दिव्वे य जे उवस्सग्गे, तहा तेरिच्छमानुसे।
जे भिक्खु जयई निच्चं, से न अच्छइ मंडले ।। वृ.दिव्यांश्चहास्यप्रद्वेषविमर्शपृथग्विमात्राभिर्देवविहितान् उप-सामीप्येन सृज्यन्तेदेवादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org