________________
१८८
उत्तराध्ययन-मूलसूत्रम्-२-३०/१२२५ इत्यवसितोऽनुगमो, नयाश्च प्राग्वत् ।।
अध्ययनं ३०. समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रिंशत्तममध्ययनं सनियुक्तिः सटीकं परिसमाप्तम्
(अध्ययनं-३१-चरणविधिःवृ. व्याख्यातं त्रिंशत्तममध्ययनम्. अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने तप उक्तम्, इह तु तच्चरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वारचतुष्टयप्ररूपणा तावद्यावन्नामनिष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्चरणविधिशब्दनिक्षेपायाह नियुक्तिकृत्नि. [५१९] निक्खेवो चरणंमि(मी) चउव्विहो दुविहो य होइ दव्वंमि।
आगमनोआगमओ नोआगमओ य सो तिविहो।। नि. [५२०] जाणगसरीरभविए तव्वतिरित्ते य गइभिक्खमाईसुं।
आचरणे आचरणं भावाचरणं तु नायव्वं ।। नि. [५२१] निक्खेवो उ विहीए चउव्विहो दुविहो य होइ दव्वंमि।
__ आगमनोआगमओ नोआगमओ य सो तिविहो । नि. [५२२] जागणसरीरभविए तव्वतिरित्ते य इंदियत्थेसुं।
भावविही पुन दुविहा संजमजोगो तवो चेव।। वृ. गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वइरिते य'त्ति तद्यतिरिक्तं च गतिभिक्षादिषु गतिःगमनं भिक्षा-भक्षणं, पठ्यते च 'चर गतिभक्षणयोः' इति, आदिशब्दादासेवापरिग्रहः, उक्तं हि-"चरतिरासेवायामपि वर्तते" इति, तत एतेषु सत्सु प्रक्रमाद्रव्यमेव सुब्ब्यत्ययेन गत्यादयो वा भावचरणकार्याकरणत्वेन तद्व्यतिरिक्तद्रव्यचरणं, तथा आचरणे' प्रस्तावाज्ज्ञानाद्याचारे 'आचरणम्' अनुष्ठानं सिद्धान्ताभिहितं 'भावे' विचार्ये चरणं 'तुः' विशेषणे ज्ञातव्यमिति ।।
तथा 'इंदियत्थेसु'न्ति इन्द्रियाणि-स्पर्शनादीनि तेषामर्थाः-स्पर्शादयस्तेषु प्रक्रमाद् यः 'विधिः' अनुष्ठानमासेवनमितियावत्, अस्यापि द्रव्यत्वं भावविधिफलासाधकत्वेन द्रव्यप्राधान्यविवक्षया वा, भावविधिः पुनः द्विविधः द्विप्रकारः, द्वैविध्यमाह-'संयमयोगः' संयमव्यापार: ‘तपश्चैव' अनशनाद्यनुष्ठानरूपं, चरणासेवनं ह्यत्र भावविधिः, सचैवंविध एवेति गाथा-- चतुष्टयार्थः ।। सम्प्रति येनेह प्रकृतं तदुपदर्शयनुपदेशमाहनि. [५२२] पगयं तु भावचरणे भावविहीए अ होइ नायव्वं ।
चइऊण अचरणविहिं चरणविहीर उजइयव्वं ।। वृ. निगदसिद्धा, नवरं, भावचरणेन' प्रस्तावाच्चारित्राचारानुष्ठानेन 'अचरणविधिम्' अनाचारानुष्ठानं त्यक्त्वा 'चरणविधौ' उक्तरूपे 'यतितव्यं यत्नो विधय इति गाथार्थः॥ मू. (१२२६) चइणविहिं पवक्खामि, जीवस्स उसुहावहं।
जं चरित्ता बहू जीवा, तिन्ना संसारसागरं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org