________________
१८७
-
-
अध्ययनं-३०,[नि.५१८]
साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ।।" 'आसेवनम्' एतद्विषयमनुष्ठानं यथास्थानं' स्वसामर्थ्यनतिक्रमेण वैयावृत्त्यं तदाख्यातमिति ३॥ स्वाध्यायमाहमू. (१२२२) वायणा पुच्छणा चेव, तहेव परियट्टणा।
अनुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ व. 'वायणे'त्यादि प्राग्व्याख्यातप्रायमेव ४ ॥ सम्प्रति ध्यानमाहमू. (१२२३) अट्टरुद्दाणि वज्जित्ता, झाईज्जा सुसमाहिए।
धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए। वृ. ऋतं-दुःखम्, उक्तं हि-"ऋतशब्दो दुःखपर्यायवाच्या श्रीयते" ऋते भवमातं, तथा रोदयत्यपरानिति रुद्रः-प्राणिवधादिपरिणत आत्मैव तस्येदं कर्मरौद्रम्, आतंच रौद्रं च आर्तरौद्रे, प्राकृतत्वाच्च बहुवचननिर्देशः, 'वर्जयित्वा' हित्वा ध्यायेत्सुसमाहितः प्राग्वत्, किमित्याहधर्म-क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्य शुक्लं-शुचि-निर्मलं सकलमिथ्यात्वादिमलविलयनात् यद्वा शुगिति-दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति-निरस्यतीति शुक्लमनयोर्द्वन्द्वस्तत: धर्म्यशुक्लध्याने स्थिराध्यवसानरूपे, उक्तं हि-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं"त्ति, 'ध्यान' ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव बुधाः 'वयंति' वदन्ति ॥ अधुना व्युत्सर्गमाहमू.(१२२४) सयनासन ठाणे वा, जे उभिक्खू न वावरे।
कायस्स विउस्सग्गो, छट्ठो सो परिकित्तिओ॥ वृ. शय्यत इति शयनं-संस्तारकादौ तिर्यक् शरीरनिवेशनं तत्रासनम्-उपवेशनं तस्मिन्, उभयत्र सूत्रत्वात्सुपोलृक् 'स्थाने' ऊर्ध्वंस्थाने 'वा' विकल्पे प्रत्येकं च योज्यते, स्वशक्त्यपेक्षं स्थित इति गम्यते, यस्तु भिक्षुः 'न वावरे'त्ति 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोनित्याभिसम्बन्धादर्थवशाद् विभक्तिपरिणामतश्च तस्य भिक्षोः 'कायस्य' शरीरस्य व्युत्सर्गः' चेष्टां प्रति परित्यागो यः 'छट्ठो सो परिकित्तितो'त्ति सूत्रत्वाल्लिङ्गव्यत्यये षष्टं तत्' प्रक्रमादभ्यन्तरं तपः 'परिकीर्तितं' तीर्थकरादिभिरुक्तं, शेषव्युत्सर्गोपलक्षणं चैतद्, अनेक-विधत्वात्तस्य,
"दव्वे भावे य तहा दुविधुस्सग्गो चउव्विहो दव्वे।
गणदेहोवहिभत्ते भावे कोहा इचातोत्ति ॥" इति सूत्रषट्कार्थः । सम्प्रत्यध्ययनार्थमुपसंहरनस्यैव फलमाहमू.(१२२५) एयं तवं तु दुविहं, जं सम्मकआयरे मुनी। . .
से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए। तिबेमि॥ वृ. 'एतत्' अनन्तरोक्तस्वरूपं तवं तु दुविहं'ति तपः द्विविधमपि उक्तभेदतो द्विभेदमपि यः सम्यक् 'आचरेत्' आसेवते मुनिः स क्षिप्रं 'सर्वसंसारात्' चतुर्गतिरूपात् 'विप्रमुच्यते' पृथग्भवति पण्डितः, पठन्ति च-'सो खवेत्तु रयं अरओ, नीरयं तु गई गए' इह च 'आयरे'त्ति तिव्यत्ययादाचारीत्, अतीतनिर्देशश्च भूतभविष्यतोरप्युपलक्षणं, कालत्रयेऽपि तुल्यमाहात्म्यत्वादस्यैतत्क्षेत्रापेक्षा(क्षया) वेति सूत्रार्थः ।। 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org