________________
अध्ययनं - ३१, [ नि. ५२२]
"वसहिकहनिसिज्जिदिय कुड्डितरपुव्वकीलियपणीए ।
अतिमायाहारविभूसणा य नव बंभगुत्तीओ ॥"
भिक्षुधर्मे 'दशविधे' क्षान्त्यादिभेदतो दशप्रकारे प्रागुक्त एव यो भिक्षुर्यतते यथावत्परिहारासेवनपरिपालनादिभिः ।
मू. (१२३६ )
उवासगाणं पडिमासु, भिक्खूणं पडिमासु य । जे भिक्खू जयई निच्च, से न अच्छइ मंडले ॥
१९१
वृ. उपासते सेवन्ते यतीनित्युपासका :- श्रावकास्तेषां 'प्रतिमासु' अभिग्रहविशेषरूपास्वेकादशसु दर्शनादिपु, उक्तं हि
"दंसणवयसामाइय पोसहपडिमा अबंभसचित्ते । आरंभपेसउद्दिट्ठवज्जए समणभूए य ॥”
'भिक्षूणां ' यतीनां 'प्रतिमासु च' मासिक्यादिषु द्वादशसु, यत आगमः"मासाई सत्तंता पढमाबितततिय सत्तराइदिना । अहराइएगराई भिक्खुपडिमाण बारसगं ॥"
यो भिक्षुर्यते यथावत्परिज्ञनोपदेशपालनादिभिः । मू. (१२३७ )
किरियासु भूयगामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ. क्रियन्ते मिथ्यात्वादिक्रोडीकृतैर्जन्तुभिरिति क्रिया : - कर्मबन्धनिबन्धनभूताश्चेष्टास्तास्वर्थानर्थादिभेदतस्त्रयोदशसु तथा चागमः
"अट्ठानट्टाहिंसाऽकम्हा दिट्टी य मोसऽदिने य ।
अज्झत्थमाणमेत्ते मायालो भेरियावहिया ।।"
अभूवन् भवन्ति भविष्यन्ति चेति भूतानि प्राणिनस्तेषां ग्रामाः- सङ्घाता भूतग्रामास्तेष्वेकेन्द्रियसूक्ष्मेतरादिभेदतश्चतुर्दशसु, उक्तं हि
"एगिंदिय सुहुमियरा सन्नियरा पणिदिया सबितिचउ । पज्जत्तापज्जत्तगभेएणं चोदसग्गामा ।"
धर्मेण चरन्ति धार्मिका ये न तथा तेऽधार्मिकाः परमाश्च ते सकलाधार्मिकप्रधानतयाऽधार्मिकाश्च परमाधार्मिकाः-अत्यन्तसंक्लिष्टचेतसो ऽम्बादयस्तेषु, ते च पञ्चदश, यत उक्तम्" अंबे १ अंबरिसी २ चेव, सामे ३ सबलेत्ति ४ आवरे । रुद्दो ५ वरुद्द ६ काले य ७, महाकालेत्ति आवरे ८ ॥१॥ असिपत्ते ९ धनु १० कुंभे ११, वालू १२ वेयरणी इय १३ । खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया || २ || "
तेषु यो भिक्षुर्यतते यथाक्रमं परिहाररक्षापरिज्ञानादिभिः । मू. (१२३८ ) गाहासोलसएहिं, तहा अस्संजमंमि अ ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले |
वृ. गीयते - शब्द्यते स्वपरसमयस्वरूपमस्यामिति गाथा - सूत्रकृताङ्गस्य षोडशमध्ययनम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org