________________
अध्ययनं.३०.[ नि.५१७] अनयोः समाहारे पानभोजनं सोपरस्करत्वादेपा परिषर्जनं' परिहरणं रसानां रस्यमानत्वेन 'तुः' पूरणे भणितम्' अभिहितं तीर्थकृदादिभिरिति गम्यते, रसविवर्जनं नाम बाह्यं तप इति सूत्रार्थः । मू. (१२१५) ठाणा वीरासणाईया, जीवस्स उ सुहावहा।
उग्गा जहा धरिज्जति, कायकिलेसं तमाहियं ।। वृ. स्थीयत एभिरिति स्थानानि-कायावस्थितिभेदा वीरासनं-यत्सिहासनस्थितस्य तदपनयने तथैवावस्थानं तदादिर्ये पां तानि वीरासनादिकानि, आदिशब्दाद्गोहोहिकासनादिपरिग्रहः, सूत्रत्वाल्लिङ्गव्यत्ययात्, लोचायुपलक्षणं चैतत्, तथाऽऽह
"वीरासण उकुडगासगाइ लोयाइओ अ विनोओ।
कायकिलेसो संसावासणिव्वेयहेउत्ति ।।१।।" 'जीवस्य जन्तोः 'तुः' अवधारणे भिन्नक्रमश्च, ततः सुखावहान्येय मुक्तिसुखप्रापकत्वेन शुभावहान्येव वा 'उग्राणि' दुरनुष्टेयतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' इत्यासेव्यन्ते गम्यमानत्वाद्यतिभिः, 'कायकिलेसं' तमाहिय'न्ति कायस्य क्लेशो-बाधनं कायक्लेशः सः 'आख्यातः' कथितस्तथैवेति शेपः, इह च संसार्यात्मनः कायानुगतत्वेन तत्क्लेशे यद्यप्यवश्यं क्लेशसम्भवस्तथाऽपि भावितात्मनामसौ सन्नप्यसत्सम एवेति तदनभिधानमिति सूत्रार्थः ।। मू. (१२१६) एगंतमनावाए. इत्थीपसुविवज्जिए।
सयनासनसेवणया, विवित्तं सयनासनं॥ वृ. 'एगंत'ति सुब्ब्यत्ययाद् 'एकान्ते' जनेनानाकुले 'अनापाते' त्याद्यापातरहिते 'स्त्रीपशुविवजिते' तत्रैव स्थितस्त्यादिरहिते शृन्यागारादाविति भावः 'सयणासणसेवणय'त्ति सूत्रत्वात् शयनासनसेवनं विविक्तशयनासनं बाह्यं तप उच्यत इति शेषः, उपलक्षणं चैतदेपणीयफलकादिग्रहणस्य, तथा चानेन विविक्तचर्या नाम संलीनतोक्ता भवति, यतस्तल्लक्षमिदम् -
"आरामुज्जानाइसु थीपसुपंडगविवज्जिए ठाणं ।
फलगाईण य गहणं तह भणियं एसनिज्जाणं ।।" शेषसंलीनतोपलक्षणं चासौ, प्राधान्याच्चास्या एव साक्षादभिधानं, प्राधान्यं चेन्द्रियादिसंलीनतोपकारित्वादस्याः, इयं चेत्थं चतुर्विधा, यत उक्तम्
"इंदियकसायजोगे पडुच्च संलीयणा मुणेयव्वा।
तह जा विवित्तचरिया पन्नत्ता वीयरागेहिं ।।" तत्रेन्द्रियसंलनता श्रोत्रादिभिरिन्द्रयैः शब्दादिषु सुन्दरेतरेपु रागद्वेपाकरणं, कपायसंलीनता तदुदयनिरोध उदीर्णविफलीकरणं च, योगसंलीनता च मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमिति सूत्रार्थः ।। उक्तमेवार्थमुपसंहरनुत्तरग्रन्थसम्बन्धाभिधानायाहमू. (१२१७) एसो बाहिरगतवो, समासेन वियाहिओ।
अभितरं तवं इत्तो, वुच्छामि अनुपुब्बसो।। वृ. 'एतत्' अनन्तरोक्तं बाह्यकं तपः समासेन व्याख्यातम्, आह-किं पुनरितो बाह्यानपसः फलमवाप्यते?, उच्यते, नि:सङ्गता शरीरलाघवेन्द्रियविजयसंयमरक्षणादिगुणयोगात् शुभध्यानावस्थितस्य कर्मनिर्जरणमिति, अभ्यन्तरतपः 'इतः' बाह्यतपोऽभिधानादनन्तरं वक्ष्यामि'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org