________________
१८४
उत्तराध्ययन-मूलसूत्रम्-२-३०/१२११ प्रक्रमादुदरस्य मुणितव्यः, यद्वा सुळ्यत्ययादेवं चरतः खलु सुब्ब्यत्ययाट् भावावमत्वन हेतुना मुणितव्यमावमौदार्यमिति प्रक्रमः ।। पर्यवावमौदार्यमाहम.(१२१२) दव्वे खित्ते भावंमि य आहिया उ जे भावा।
एएहिं ओमचरओ पज्जवचरओ भवे भिक्खू । व. 'द्रव्ये' अशनादौ क्षेत्रे' ग्रामादौ 'काले' पौरुष्यादौ 'भावे च' स्त्रीत्वादौ 'आख्याताः' कथिताः 'तुः' पूरणे ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, एतैः सर्वैरपि द्रव्यादिपर्यायैः 'ओमत्ति' अवममुपलक्षणत्वादवमौदार्यं चरति-आसेवते अवमचरकः पर्यवचरको भवेदिभक्षुः, इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदार्यमुक्तम्, अथवा 'एएहिं अवमचरओ'त्ति एतेभ्यः' द्रव्यादिपर्यायेभ्यः 'अवमचरकः' न्यूनत्वासेवकः, किमुक्तं भवति?एकसिक्थोनत्वादावपि नवपुराणादिविशेषाभिग्रहवान, एवं ग्रामपौरुपीस्त्रीत्वादिप्वपि विशिष्टाभिग्रहतः पूर्वस्मान्यूनत्वं भावनीयम्। ___ आह-क्षेत्रावमौदार्यादिप्वप्यशनादिद्रव्येणैवोदरस्यावमत्वमिति कथं द्रव्यावमौदार्यादेपां विशेष: ?, उच्यते, क्षेत्रादिहेतुकत्वस्यैव तत्र प्राधान्येन विवक्षितत्वात्, तद्विवक्षा च द्रव्यावमौदार्यस्यापि तेषु तद्धेतुकत्वात्, यदिवा यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनातामपेक्ष्य क्षेत्राद्यवमौदार्याणि भण्यन्त इति प्रश्नानवकाश एवेति सूत्रैकादशकगर्भार्थः ।। मू. (१२१३) अट्ठविहगोयरग्गं तु. तहा सत्तेव एसणा।
अभिग्गहा य जे अन्नने, भिक्खायरियमाइया॥ वृ. 'अट्ठविहगोयरग्गं'ति प्राकृतत्वाद् अष्टविधः-अष्टप्रकारोऽग्रः-प्रधान आधाकर्मादिपरिहारेण स चासौ गौरिवचरणम्-उच्चावचकुलेप्वविशेपेण पर्यटनं गोचरश्चाष्टविधाग्रगोचरः, 'तुः' उत्तरेभदापेक्षया समुच्चये, तथा सप्तैवैषणा अभिगृह्यन्त इत्यभिग्रहाः 'च:' समुच्चये ये अन्ये एतदतिरिक्ताः, ते किमित्याह-'भिक्खायरियमाहिय'त्ति सूत्रत्वेन भिक्षाचर्याविषयत्वात् भिक्षाचर्या वृत्तिसङ्केपापरनामिकाऽऽख्याताः, अत्र चाष्टावग्रगोचरभेदा: पेडादय एव जम्वूकावतीया द्वैविध्याश्रयणतः तथा ऋज्च्याद्याश्चापरायाः प्रक्षेपात्, सप्तैषणाश्चेमाः
"संसट्ठमसंसट्टा उद्धड तह अप्पलेवडा चेव।
उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया।" ___ 'अभिग्रहाश्च' द्रव्यक्षेत्रकालभावविषयाः, तत्र द्रव्याभिग्रहाः-कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्य इत्यादयः क्षेत्राभिग्रहा:-देहलीजङ्घयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः, कालाभिग्रहा-सकलभिक्षाचरनिवर्तनावसरे मया पर्यटितव्यमित्यादयः, भावाभिग्रहास्तु-हसन् रुदन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः ।। अभिहिता भिक्षाचार्या, रसपरित्यागमाहमू. (१२१४) खीरदहिसप्पिमाई, पणीयं पानभोयणं ।
परिवज्जणं रसाणं तु, भणियं रसविवज्जणं। वृ. क्षीरं-दुग्धं दधि-तद्वीकारः सर्पिः-घृतं तदादि, आदिशब्दाद् गुडपक्कान्नादिपरिग्रह:, 'प्रणीतम्' अतिबृहकं पीयत इति पानं-खजूररसादि भुज्यत इति भोजनं-गलबिन्द्वोदनादि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only