________________
अध्ययनं-३०,[ नि. ५१७]
१८३ पयंगुड्डाणसरिसा ‘संबुक्कावटुं'त्ति शम्बूकः -शङ्खस्तस्यावतः शम्बूकावर्तस्तद्वदावर्तो यरर सा शम्बूकावर्ता, सा च द्विविधायतः सम्प्रदाय:-"अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभंतरसंबुक्काए संखनाभिखेत्तोवमाए आगिइए अंतो आढवति बाहिरओ संनियट्टइ, इयरीए विवज्जयो," 'आययगंतुंपच्चागय'त्ति, अत्रायतं-दीर्घ प्राञ्जलमित्यर्थः, तथा च सम्प्रदायः"तत्थ उज्जुयं गंतूण नियट्टइ" 'छ8'त्ति षष्ठी, नन्वत्र गोचररूपत्वाद्भिक्षाचार्यत्वमेवासां तत्कथमिह क्षेत्रावमौदार्यरूपतोक्ता ?, उच्यते, अवमौदार्यं ममास्त्वित्यभिसम्बन्धिना विधीयमानत्वादवमौदार्यव्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः, एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयतस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम्॥ मू. (१२०८) दिवसस्स पोरिसीणं चउण्हपि उ जत्तिओ भवे कालो।
एवं चरमानो खलु कालोमाणं मुनेयव्वं ।। वृ.कालावमौदार्यमाह-'दिवसस्य' अह्नः 'पौरुषीणां' प्रहराणां चतसृणामपि 'तुः' प्राग्वद् यावान् भवेत्कालोऽभिग्रहविपय इति शेपः, 'एव'मित्येवं प्रक्रमात्कालेन 'चरमाण'त्ति तिंसुब्ब्यत्ययाच्चरतः 'खलु' निश्चितं' कालोमाण'न्ति कालेनावमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः ?-कालावमौदार्यं मुणितव्यं, कालहेतुत्वादस्येति भावः, यदिवाऽभेदोपचारेण स एवाभिगृहीतकाले चरनवमौदार्य मुनितव्यः ।। एतदेव प्रकारान्तरेणाहमू.(१२०९) अहवा तइयपोरिसीए. ऊणाए घासमेसंतो।।
चउभागूणा एवा, एवं कालेण ऊ भवे ।। वृ.अथवा तृतीयापौरुष्यामूनायां ग्रासम्-आहारमेपयन्-त्रिविधैपणया गवेषयन्, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां वाशब्दात्पञ्चादिभागोनायां वा तृतीयपौरुष्याम्, ‘एवम्' अमुना कालविपयाभिग्रहलक्षणेन प्रकारेण चरन्नित्यनुवर्तते, कालने तु भवदेवमौदार्ययोगाद् यतिरप्यवमौदार्यम्, औत्सर्गिकविधिविषयं चैतत्, उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमनुज्ञातं, यदुक्तम्-"पंथो भिक्खा य तइयाए'त्ति । भावावमौदार्यमाहमू.(१२१०) इत्थी वा पुरिसो वा अलंकियो वाऽणलंकियो वावि।
अनयरवयत्थो वा, अायरेणं च वत्थेणं॥ वृ. स्त्री वा पुरुषो वा 'अलकुंतो वा' कटकाद्यलङ्कारविभूपितो वा 'अनलंकृतो वाऽपि' तद्विपरीतः, तथाऽन्यतरच्च तद्वयश्च-बाल्याद्यन्यतरवयस्तत्स्थो वा, अन्यतरेण वा पट्टवाटकमयादिना 'वस्त्रेण' वाससा, लक्षणे तृतीया, सर्वत्र वा विकल्पे॥ मू. (१२११) अन्नण विसेसेणं वन्नेणं भावमनुमुअंते उ।
एवं चरमाणा खलं भावोमोणं मुनेयव्वं ।। वृ. 'अन्येन' विशेषान्तराद्भिन्नेन 'विशेषेण' कुपितप्रहसितादिनाऽवस्थाभेदेन 'वर्णेन' कृष्णादिना प्रक्रमादन्यतरेणोपलक्षित: 'भावं' पर्यायमुक्तरूपमेवालकुंतत्वादि अनुमुयंते उ'त्ति तुशब्दस्यावधारण(गार्थ)त्वाद्'अनुन्मुञ्चन्नेव' अत्यजन्नेव यदी दाता दास्यति ततोऽहं ग्रहीष्ये न त्वन्यथेत्युपस्कारः, एवं चरन् ‘खलु' निश्चितं भावोमोणं' ति भावावमत्वेनापलक्षितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org