SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ उत्तराध्ययन-मूलसूत्रम्-२-३०/१२०४ खेडे कब्बडदोणमुहपट्टणमडंबसंबाहे॥ वृ.क्षेत्रावमौदर्यमाह-प्रसति गुणान् गम्यो वाऽष्टादशानां करणामिति ग्रामस्तस्मिन्, नामत्र करोऽस्तीति नकरतस्मिन्, तथा राजाऽनया धीयत इति राजधानि-राज्ञः पीठिकास्थानमित्यर्थः, निगमयन्ति तस्मिन्नेकविधभाण्डानीति निगमः-प्रभूततरवणिजां निवासोऽनयोः समाहारस्तस्मिश्च, आकुर्वन्ति तस्मिन्नित्याकरो-हिरण्याद्युत्पत्तिस्थानं तस्मिन्, 'पल्लि'त्ति सुव्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनो जना इति पल्ली, नैरुक्ता विधिः, वृक्षगहनाद्याश्रितः प्रान्तजननिवासस्तस्यां, खेट्यन्ते-उत्रास्यन्तेऽस्मिन्नैव स्थितैः शत्रव इति खेट-पांशुप्राकारपरिक्षिप्तम्, उक्तं हि-"खेडं पुण होइ धूलिपायारं" तस्मिन्, कर्बट-कर्बटजनावासः, कुनगरमित्यर्थः, द्रोण्योनावो मुखमस्येति द्रोणमुखं-जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिर्वा, पतन्ति तस्मिन् समस्तदिग्भ्यो जनाइति पत्तनं, तच्च जलपत्तनं यज्जलमध्यमवर्ती, यथा काननबी,: स्थलपत्तनं च निर्जलभूभागभावि यथा मथुरा, 'मडंब'त्ति देशीपदं यस्य सर्वदिश्वर्द्धतृतीययोजनान्तामो नास्ति, समिति-भृशं बाध्यन्तेऽस्मिन् जना इति संबाधः-प्रभूतचातुर्वर्ण्यनिवासः, कर्बटादीनां चात्र समाहारद्वन्द्वस्तस्मिन्। मू.(१२०५) आसमपए विहारे संनिवेसे समायघोसे य। थलिसेणाखंधारे सत्थे संवट्ट कोट्टे य॥ वृ. आ-सन्मात् श्राम्यन्ति-तपः कुर्वन्त्यस्मिन्नित्याश्रमः- तापसावसथादिस्तदुपलक्षितं पदं-स्थानमाश्रमपदं तस्मिन्, विहारो-भिक्षुनिवासो देवगृहं वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, 'संनिवेशे' यातष्दिसमायातजनावासे, समाजः-पथिकसमूहः घोषो-गोकुलमनयोः समाहारे समाजघोषं तस्मिन्, 'च:' समुच्चये, स्थल्याम्-उच्चभूभागे सेना-चातुरङ्गबलसमूहः स्कन्धावारः स एवाशेषखेडाद्युतलक्षितोऽनयोः समाहारे सेनास्कन्धावारं तस्मिन, 'सार्थे' गणिमधरिमादिभृतवृषभादिसङ्घाते संवर्तन्ते-पिण्डीभवन्तस्मन् भयत्रस्ता जना इति संवर्त्तस्तस्मिन्, कोट्ट-प्राकारोऽनयोः समाहारे संवर्तकोट्टतस्मिन् ‘चः' समुच्चये, क्षेत्रप्रस्तावादिह समाजिकादिषु च क्षेत्रमेवोपलक्ष्यते। मू.(१२०६) वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खितं । कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥ वृ. वाडेसु'त्ति वाटेषु पाटेपुवावृत्तिवरण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु'रथ्यासु' सेरिकासु 'गृहेषु' प्रतीतेषु, सर्वत्र वा विकल्पे, 'एव'मित्यनेन हृदयस्थप्रकारेण 'एत्तिय'न्ति 'एतावत् विवक्षातो नियतपरिमाणं क्षेत्रं 'कल्पते' उपयोगं याति पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दाद्गृहशालादिपरिग्रहः, एव' मित्यमुना क्षेत्रप्राधान्यादभिग्रहग्रहणलक्षणेन प्रकारेणेति 'क्षेत्रेण' इति क्षेत्रहेतुकं 'तुः' पूरणे भवेदममौदार्यमिति प्रक्रमः ।। मू. (१२०७). पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव। संबुक्कावट्टाययगंतुंपच्छागया छट्ठा। वृ.पुनरन्यथा क्षेत्रावमौदार्यमाह-'पेड'त्यादि, अत्र चसम्प्रदाय:-"पेडा पेडिका इव चउकोणा अद्धपेडा इमीए चेव अद्धसंठिया घरपडिवाडी गोमुत्तिया वंकावलिया पयंगविही अणियया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy