________________
उत्तराध्ययन- मूलसूत्रम् - २-३० / १२०० समभावमिठियप्पा सम्मं सिद्धंतभणितमग्गेणं । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ २ ॥ सव्वत्थापडिबद्धो दंडाययमादिठाणमिह ठाउं । यावज्जीवं चिट्ठइ निच्चिट्ठी पायवसमानो || ३ ||" अहवा सपरिकम्मा अपरिकम्मा य आहिया । नीहारिमनीहारी आहारच्छेअओ दोसुवि ॥
मू. (१२०१)
वृ. पुनर्द्वैविध्यमेव प्रकारान्तरेणाह - ' अथवे 'त्ति प्रकारान्तरसूचने सह परिकर्मणास्थाननिपदनत्वग्वर्त्तनादिना विश्रामणादिना च वर्त्तते यत्तत्सपरिकर्म अपरिकर्म च तद्विपरीतम् 'आख्यातं' कथितं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, एकत्र स्वयमन्येन वा कृतस्य अन्यत्र तु स्वयंविहितस्योद्वर्त्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात्, तथा चाह" आयपरपरिक्कम्मं भत्तपरिण्णाए दो अनुन्नाया । परवज्जिया य इंगिणि चउव्विहाहारविरई य ॥१॥ ठाणनिसियणतयट्टण इत्तरियाई जहासमाहीए । सयमेव यसो कुणई उवसग्गपरिसहऽ हियासे ||१|| " अपरिकर्म च पादपोपगमनं, निष्प्रतिकर्मताया एव तत्राभिधानात्, तथा चागमः"समविसमंमि य पडिओ अच्छइ जह पायवो व्व निक्कंपो । निच्चलनिप्पडिकम्मो निक्खिवई जं जहि अंगं ॥२॥ तं चिय होइ तहच्चिय नवरं चलणं परप्पओगाओ । वायाईहिं तरुस्स व पडिणीयाईहिं तह तस्स ॥ ३॥ " यद्वा परिकर्म-संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरितं त्वपरिकर्म, तत्र चाव्याघाते त्रयमप्येतत्सूत्रार्थो भयनिष्ठितो निष्पादितशिष्यः संलेखनापूर्वकमेव विधत्ते, अन्यथाऽऽर्त्तध्यानसम्भवात्, उक्तञ्च
१८०
"देहम्मि असंलिहिए सहसा धाऊहि खिज्जमाणाहिं ।
जाय अट्टज्झाणं सरीरिणो चरिमकालंमि ||४||"
इति सपरिकर्मोच्यते, यत्पुनर्व्याधाते गिरिभित्तिपतनाभिधातादिरूपे संलेखनामविधायैव भक्तप्रत्याख्यानादि क्रियते तदपरिकर्म, उक्तञ्चगमे
"अवि धातो या विज्जूगिरिभित्तीकोणगा य वा होज्जा । संबद्धहत्थपायादयो व वाएण होज्जाहि ॥ १ ॥ एएहिं कारणेहिं बाधाइममरण होइ बोद्धव्वं । परिकम्ममकाऊणं पच्चक्खाई ततो भत्तं ॥ २॥"
तथा निर्हरणं निर्हारो - गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारितदन्यदनिर्धारि यदुत्थातुकामे व्रजिकादौ विधीयते एतच्च प्रकाराद्वयमपि पादपोपगमनविषयं, तत्प्रस्ताव एवागमेऽस्याभिधानात्, तथा चागमः
,
"पव्वज्जाई काउं नेयव्वं जाव होयवोच्छित्ती ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org