________________
१७८
उत्तराध्ययन-- मूलसूत्रम् - २-३० / ११९७ ततश्चाविद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं 'द्विविधं' द्विप्रकारं भवेत्, तत्र 'इत्तरिय'त्ति इत्वरकं सहावकाङ्क्षया-घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तत इति सावकाङ्क्ष निष्क्रान्तमाकाङ्क्षातो निराकाङ्क्ष, तज्जन्मनि भोजनाशंसाभावात्, तुशब्दस्य भिन्नक्रमत्वाद् द्वितीयं पुनर्मरणकालं, पाठान्तरतश्च निरवकाङ्क्ष द्वितीयम् ।
'यथोद्देशं निर्देश' इति न्यायत इत्वरकानशनस्य भेदानाहजो सो इत्तरियतवो, सो समासेण छव्विहो । सेढितवो पयरतवो, घनो अ तह होइ वग्गो य ॥
मू. ( ११९८ )
वृ. यत्तदित्वरकं तपः-इत्वरकानशनरूपमनन्तरमुक्तं तत् 'समासेन' सङ्क्षेपेण विधं, विस्तरेण तु बहुतरभेदमिति भावः ॥ पड्विधत्वमेवाह-- 'सेढितवो' इत्यादि, अत्र च श्रेणि:पंक्तिस्तदुपलक्षितं तपः श्रेणितपः तच्चतुर्थादिक्रमेण क्रियमाणमिह पण्मासान्तं परिगृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, इह चाव्यामोहार्थं चतुर्थपष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता पोडशपदात्मकः प्रतरो भवति, अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनापाय उच्यते
"एकाद्याद्या व्यवस्थाप्याः, पंक्तयोऽत्र यथाक्रमम् ।
एकादश्च निवेश्यान्ते, क्रमात्पंक्ति प्रपूरयेत् ॥"
-
अस्यार्थः-एक आदिर्येषां ते एकादयः-एककद्विकत्रिकचतुष्कास्ते आद्या यासु ता एकाद्याद्या: 'व्यवस्थाप्या: ' न्यसनीया: 'पंक्तय: ' श्रेणयः 'यथाक्रमं ' क्रमानतिक्रमेण, कोऽर्थः ? - प्रथमा एकाद्या एककादारभ्य, द्वितीया द्विकाद्या द्विकादारभ्य तृतीया त्रिकाद्या त्रिकादारभ्य, चतुर्थी-चतुष्काद्या चतुष्कादारभ्य, आह एवं सति प्रथमपंक्तिरेव परिपूर्णा भवति द्वितीयाद्यास्तु 'न पूर्यन्त एव, तत्कथं पूरणीया: ?, उच्यते, एकादश्च निवेश्य व्यवस्थाप्याः 'अन्ते' इत्यग्रे 'क्रमात्' इति क्रममाश्रित्य 'पंक्तिम्' अपूर्यमाणा श्रेणि 'पूरयेत्' परिपूर्णां कुर्यात्, तत्र च द्वितीयपंक्तौ द्वित्रिकचतुष्कानामग्रे एककः, तृतीयपंक्तौ त्रिकचतुष्कयोः पर्यन्ते एकको द्विकः, चतुर्थपंक्तौ चतुष्कावसान एककद्विकत्रिकाः स्थाप्यन्ते, चतुर्थषष्ठाष्टमदशमप्रक्रमः, 'धन' इति धनतपः 'चः' पूरणे तथेति समुच्चये भवतीति च क्रिया प्रतितपोभेदं योजनीया, अत्र च षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो धनो भवति, आगतं चतुःषष्टिः ६४, स्थापना तु पूर्विकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो धनतप उच्यते, ‘च:' समुच्चये, 'तथा भवति वर्गश्चे' तीहापि प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च धन एव धनेन गुणितो वर्गो भवति, ततश्चतुः ष्टिश्चतुःषष्टयैव गुणिता जातानि षन्नवत्यधिकानि चत्वारि सहस्राणि, एवदुपलक्षितं तपो वर्गतपः ।
मू. (११९९ )
तत्तोय वग्गग्गो उ पंचमो छुट्टओ पइन्नतवो । मनइच्छियचित्तत्थो नायव्वो होइ इत्तरिओ ॥
वृ.‘ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्ग' इत् वर्गवर्गतपः 'तुः' समुच्चये 'पञ्चमं' पञ्चसङ्ख्यापूरणम्, अत्र च वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवगी भवति, तथा च चत्वारि सहस्राणि पन्नवत्यधिकानि तावतैय गुणितानि जातैका कोटि: सप्तष्टिलक्षा: सप्तसप्ततिसहस्राणि द्वे शते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International