SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अध्ययनं.३०,[नि.५१७] १७७ भवकोडीसंचियं कम्म, तवसा निज्जरिज्जई।। वृ. 'एतेपां' तु प्राणिवधविरत्यादीनामनाश्रवहेतूनां 'विवज्जासे'त्ति विपर्यासे प्राणिवधादावसमितत्वादो च रागद्वेषाभ्यां समजितम्-उपाजितं रागद्वेपसमजितं कर्मेति गम्यते तद्यथा क्षपयति तन्मे कथयत इति शेषः, एकम्-एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो यस्यासावेकमनाः शृण्विति शिष्याभिमुखीकरणम्। 'संनिरुद्ध' पाल्यादिना निषिद्धे 'जलागमे जलप्रवेशे 'उरिंसचणाए'त्ति सूत्रत्वाद् ‘उत्सेचनेन' अरघट्टघटीनिवहादिभिरुदञ्चनेन तवणाए'त्ति प्राग्वत् 'तपनेन' रविकरनिकरसन्तातपरूपेण ‘क्रमेण' परिपाट्य 'शोषणा' जलाभावरूपा भवेत् । ___'पापकर्मनिराश्रवे' पापकर्मणामाश्रवाभावे 'भवकोटीसञ्चितम्' इत्यत्र कोटीग्रहणमतिबहुत्वोपलक्षणं कोटीनियमासम्भवात्, कर्म तपसा 'निर्जीर्यते' आधिक्येन क्षयं नीयते, शेपं स्पष्टमिति सूत्रत्रयार्थः ।। तपसा कर्म निर्जीर्येत इत्युक्तं, तत्र किं तत्तपः? इति संशये भेदाभिधानं विनाऽशक्यत्वात्तत्स्वरूपाभिधानस्य तद्भेदानाहमू. (११९५) सो तवो दुविहो वुत्तो, बाहिरऽब्भतरो तहा। बाहिरो छब्बिहो वुत्तो, एवमभितरो तवो ।। वृ.'तद्' अनन्तप्रक्रान्तं तपो द्विविधमुक्तं 'बाहिरऽब्भंतरो'त्ति बाह्यं' बाह्यद्रव्यापेक्षत्वात् प्रायो मुक्त्यवाप्तिबहिरङ्गत्वाच्च ‘अभ्यतरं' तद्विपरीतं, यदिवा लोकप्रतीतत्वाकुतीथिकैश्च स्वाभिप्रायेणासेव्यमानत्वाबाह्यं तदितरत्त्वाभ्यन्तरम्, उक्तञ्च "लोके परसमयेषु च यत्प्रथितं तत्तपो भवति बाह्यम् । आभ्यन्तरमप्रथितं कुशलजनेनैव त ग्राह्यम ॥" अन्ये त्वाहुः- "प्रायेणान्तःकरणव्यापाररूपमेवाभ्यन्तरं, बाह्यं त्वन्यथे"ति, तथेति समुच्चये, बाह्यं पड्विधं' पड्भेदमुक्तमेवमिति-पड्विधमभ्यन्तरं तप उक्तमिति सम्बन्धः, सर्वत्र सूत्रत्वाल्लिङ्गव्यत्यय इति सूत्रार्थः ।। तत्र यथा बाह्यं षड्विधं तथाऽहमू.(११९६) अनसनमूणोअरिया भिक्खायरिया य रसपरिच्चाओ। कायकिलेसो संलीयणा य बज्झो तवो होइ। वृ. अक्षरार्थः स्पष्ट एव ।। भावार्थं तु प्रतिभेदं सूत्रकार एवाभिधित्सुस्तावदनशनमाहमू.(११९७) इत्तरियमरणकाला य, अनसना दुविहा भवे। इत्तरिया सावकंखा, निरवकंखा उ बिइज्जिया।। वृ. 'इत्तरिय'त्ति इत्वरमेवेत्वरकं-स्वल्पकालं नियतकालावधिकमिति योऽर्थः, मरणावसानः कालो यस्य तन्मरणकालं प्राग्वन्मध्यपदलोपी समासः, यावज्जीवमित्यर्थः, तथा मरणं कालः अवसरो यस्य तन्मरणकालं ‘च:' समुच्चये, अश्यते-भुज्यत इत्यशनमशेषाहाराभिधानमेतत्, उक्तं हि "सव्वोऽवि य आहारो असणं सव्वोऽवि वुच्चए पानं । सव्वोऽवि खाइमंपि य सव्वोऽविय साइमं होइ ।।" 29/12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy