________________
उत्तराध्ययन- मूलसूत्रम् - २ - ३० / ११८८ यं तु भावमग्गे सिद्धिगईए उ नायव्वं ॥ दुविहतवोमग्गगई वन्निज्जइ जम्ह इत्थ अज्झयणे । तम्हा एअज्झयणं तवमग्गगइत्ति नायव्वं ॥
नि. [५१७]
वृ. गाथाचतुष्टयं प्राग्वत्, नवरं 'पंचतवमाइ 'त्ति पञ्चतपः- पञ्चाग्नितपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽग्रयः पञ्चमश्च तपनतस्तल्लोके प्रसिद्धम्, आदिशब्दाल्लोकप्रतीतमन्यदपि बृहतपः प्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन तथाविधशुद्धनङ्गत्वात्, तथा भावे प्रक्रमात्तपो बाह्यमभ्यन्तरं चात्रैव वक्ष्यमाणस्वरूपं ॥ तथा 'पुव्वु द्दिट्ठो 'त्ति पूर्वत्रमोक्षमार्गगतिनामकेऽध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः 'भावमग्गो 'त्ति सुब्व्यत्ययाद्, 'भावमार्गेण' मुक्तिपथेन तपोरूपेण ज्ञानदर्शनचारित्राविनाभावित्यवाद् भावतपसः ॥
नामनिरुक्तिमाह-द्विविधं तपो - बाह्यमभ्यन्तरं च तदेव मार्गो भावमार्गस्तत्फलभूता च गतिः - सिद्धिगतिर्द्विविधतपोमार्गगतिर्भण्यते यस्मादत्र-अध्ययने तस्मादेतदध्ययनं तपोमार्गगतिरिति ज्ञातव्यम्, अभिधेयेऽभिधानोपचारादिति भाव:, इति निर्युक्तिगाथाचतुष्टयार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, तस्य च सूत्रानुगमाविनाभावित्वात् सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
मू. ( ११८९ )
१७६
जहा उ पावगं कम्म, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुने ॥
वृ. 'यथा' येन प्रकारेण 'तुः' अवधारणे भिन्नक्रमो योक्ष्यते, 'पापकं कर्म' ज्ञानावरणादि रागद्वेषाभ्यां समिति-भृशमर्जितम् - उपात्तं रागद्वेषसमर्जितं क्षपयत्येव 'तपसा' वक्ष्यमाणलक्षणेन भिक्षुः 'तदेकाग्रमनाः' अवहितचितः शृण्विति शिष्यमभिमुखीकरोति, मा भूदनभिमुखोपदेशनेनैतद्वैफल्यमिति सूत्रार्थः । इह चाना श्रवेणैव सर्वथा कर्म क्षप्यत इति यथाऽसौ भवति मू. (११९० ) पाणिवहमुसावाया अदत्तमेहुणपरिग्गहा विरओ। राईभोयणविरओ, जीवो भवइ अनासवो ॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अ निस्सल्लो, जीवो भवइ अनासवो ॥
मू. (११९१ )
वृ. सूत्रद्वयं प्रायः प्रतीतार्थमेव, नवरं विरत इति प्राणवधादिभिः प्रत्येकमभिसम्बध्यते, तथा भवत्युनाश्रव इति-अविद्यमानकर्मोपादानहेतुः ।
द्वितीयसूत्रे ऽप्यनाश्रवः - समित्यादिविपर्ययाणां कर्मोपादानहेतुत्वेनाश्रवरूपत्वात्तेषां चाविद्यमानत्वादिति सूत्रद्वयार्थः ॥ एवंविद्धश्च यादृशं कर्म यथा च क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरणपूर्वकं दृष्टान्तद्वारेण तदाह
मू. ( ११९२ )
मू. (११९३ )
एएसि तु विवज्जासे, रागद्दोससमज्जियं । खवेइ तं जहा भिक्खू, तं मे एगमना सुण ॥ जहा महातलागस्स, संनिरुद्धे जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥ एवं तु संजयस्सावि, पावकम्मनिरासवे ।
मू. ( ११९४ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org