SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२९,[ नि. ५१३] १७५ ___सम्मत्तनाणदंसणसुहसिद्धत्ताणि मोत्तूणं ।।" । ऋजुः-अवक्रा श्रेणिः-आकाशप्रदेशपंक्तिस्तां प्राप्त ऋजुश्रेणिप्राप्त: अनुश्रेणिगत इतियावत्, 'अफुसमाणगइ'त्ति अस्पृशद्गतिरिति, नायमों यथा नायमाकाशप्रदेशान्न स्पृशति अपि तु यावत्सु जीवोऽवगाढस्तावत एव स्पृशति न तु ततोऽतिरिक्तमेकमपि प्रदेशम्, 'ऊर्द्धवम्' उपरि 'एकसमयेन' द्वितीयादिसमयान्तरास्पर्शेन ‘अविग्रहेण' वक्रगतिरूपविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति अनु श्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानं, 'तत्र' इति विवक्षिते मुक्तिपदइतियावत् ‘गतं'त्ति गत्वा 'साकारोपयुक्तः' ज्ञानोपयोगवान् सिद्धतीत्यादि यावदन्तं करोतीत्यादि प्राग्वत्, उक्तं हि "उजुसेढिं पडिवन्नो समयपएसंतरं अफसमानो। एगसमएण सिज्झइ अह सागारोवउत्तो सो॥" इति, द्वासप्ततिसूत्रार्थः । इह च चूर्णिकृता-"सेलेसी ए णं भंते ! जीवे किं जणइ ? अकम्मयं जणति, अकम्मयाए जीवा सिज्झन्ति" इति पाठः, पूर्वत्र च क्वचित्किञ्चित्पाठभेदेनाल्पा एव प्रश्ना आश्रिताः, अस्माभिस्तु भूयसीषु प्रतिषु यथाव्याख्यातपाठदर्शनादित्थमुन्नीतमिति । मू.(११८८) एसो खलु सम्मत्तपरक्कमस्सअज्झयणस्सअढे समणेणं भगवया महावीरेण आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्तिबेमि। वृ.'एषः' अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्य 'अर्थः' अभिधेयः श्रमणेन भगवता महावीरेण आघविए'त्ति आर्षत्वाद् 'आख्यातः' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन 'प्रज्ञापितः' हेतुफलादिप्रकाशनात्मकप्रकर्षज्ञापनेन 'प्ररूपितः' स्वरूपकथनेन 'दर्शितः' नानाविधभेददर्शनेन 'निदर्शितः' दृष्टान्तोपन्यासेन 'उपदर्शितः' उपसंहारद्वारेण, इदमपि चूर्णिमाश्रितमेव। 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, गतोऽनुगमः, सम्प्रति नयाः, तेऽपि तथैव। अध्ययनं २९ समाप्तम् मुनि दीपरत्नसगारेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकोनत्रिंशमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता सटीकं परिसमाप्ता। अध्ययनं ३० तपोमार्गगतिः) व.व्याख्यातमेकोनत्रिंशमध्ययनम्, अधुना त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययनेऽप्रमाद उक्तः, इह तु तद्वता तपो विधेयमिति तत्स्वरूपमुच्यते, इत्यनेन सम्बन्धे-- नायातमिदमध्ययनम्, अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे तपोमार्गगतिरिति त्रिपदं नाम, अत एव तत्पदत्रयनिक्षेपायाह नियुक्तिकृत् नि. [५१४] निक्खेवो (उ) तवंमि चउव्वि०॥ नि. [५१५] जाणगभविसरीरे तव्वइरिते अपंचतवमाई। भाचंमि होइ दुविहो बज्झो अभितरो चेव॥ नि. [५१६] मग्गगईणं दुण्हवि पुव्वुद्दिट्ठो चउक्कनिक्खेवो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy