________________
१६२
उत्तराध्ययन- मूलसूत्रम् - २ - २९ / ११४३ निरभिष्वङ्गतया 'निःसङ्गत्वं' वहिःसङ्गाभावं जनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत एव 'एकाग्रचितः ' धर्मैकतानमना एकाग्रताविबन्धकहेत्वभावात्, ततश्च दिवा वा रात्रौ वाऽसजन्, कोऽर्थः ? - सदा बहि: - सङ्गं त्यजन्नप्रतिबद्धश्चापि विहरति, कोऽभिप्रायः ?विशेषत: प्रतिबन्धविकलो मासकल्पादिनोद्यतविहारेण पर्यटति ।
मू. ( ११४४ ) विवित्तसयणासणयाए णं भंते ! जीवे किं जणेइ ?, चरित्तगुत्तिं जणेइ, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मुक्खस्वभावपडिपत्रे अट्ठविहं कम्मगठि निज्जरेइ ॥
वृ. अप्रतिबद्धता च विविक्तशयनासनतायां संभवत्यतस्तामाह-विविक्तानि - स्त्र्याद्यसंसक्तानि शयनासनान्युपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्तिं' चरणरक्षां जनयति 'चरित्तगुत्ते ' त्ति प्राग्वद्, गुप्तचरित्रश्च जीवो विविक्तो - विकृत्यादिरहित आहारो यस्य स तथा, गुप्तचारित्रो हि सर्वत्र निःस्पृह एव भवति, तथा दृढं निश्चलं चरित्रमस्येति दृढचरित्रस्तत एवैकान्तेन निश्चयेन रतः - अभिरतिमानेकान्तरत: संयम इति गम्यते, तथा मोक्षे- मुक्तौ भावने - अन्तःकरणेन प्रतिपन्न-आश्रितः मोक्षभावप्रतिपन्न: मोक्ष एव मया साधयितव्य इत्यभिप्रायवान् अष्टविधकर्मग्रन्थिरिव ग्रन्थिभेदतयाऽष्टविधकर्मग्रन्थिस्तं 'निर्जरयति' क्षपक श्रेणिप्रतिपत्त्या क्षपयति ।
मू. ( ११४५ ) विणिबट्टणयाए णं भंते! जीवे किं जणेइ ?, पावकम्माणं अकरणयाए अब्भुट्टेइ पुव्वबद्धाण य निज्जरयाए पावं नियत्तेइ, तओ पच्छा चाउरंतं संसारकंतारं वीईवयइ ॥
वृ. विविक्तशयनासनतायां च विनिवर्त्तना भवतीति तामाह - 'विनिवर्त्तनया' विषयेभ्य् आत्मनः परांमुखीकरणरूपया 'पापकर्मणां' सावद्यानुष्ठानानाम् 'अकरणतया' न मया पापानि कर्त्तव्यानीत्येवंरूपया 'अभ्युत्तिष्ठते' धर्मं प्रत्युत्सहने, पूर्वबद्धानां पापकर्मणामिति प्रक्रमः, चशब्दो निर्जरनानन्तरं द्रष्टव्यः ततः पूर्वबद्धानां निर्जरनया चशब्दादभिनवानुपादानेन च 'तदि 'ति कर्म 'निवर्त्तयति' विनाशयति, यदिवा पापकर्मणां ज्ञानावरणादीनाम् 'अकरणयाइ 'त्ति आर्षत्वाद् 'अकरणेन' अपूर्वानुपार्जनेनाभ्युतिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां च कर्मणां निर्जरनया, अन्यत्प्राग्वत् ।
मू.( ११४६ ) संभोगपच्चक्खाणेणं भंते! जीवे किं जणेइ ?, आलंबणाइं खवेइ, निरालंबणस्स य आययद्विया जोगा भवन्ति, सएणं लाभेणं संतूसइ परस्स लाभं नो आसाएइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स लाभं अनासाएमाणेअतक्केमाणे अपीहमाणे अपत्थेमाणे अनभिलसेमाणे दुच्चं सुहसिज्जं उवसंपज्जित्ता णं विहरइ ॥
वृ. विषयनिवृत्तश्च कश्चित्सम्भोगप्रत्याख्यानवान् संभवत्यतस्तदाह- समिति-संकरेणस्वपरलाभमीलनात्मकेन भोगः सम्भोगः, एकमण्डलीक भोक्तृत्वमिति योऽर्थः तस्य प्रत्याख्यानं - गीतार्थावस्थायां जिनकल्पाद्यभ्युतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानादीनि 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बनस्य चायतो-मोक्षः संयमो वा स एवार्थ:- प्रयोजनं विद्यते येषामित्यायतार्थिकाः 'योगाः ' 'व्यापारा भवन्ति प्रपञ्चतश्च प्रवर्त्तन्ते, तथा 'स्वकीयेन' आत्मीयेन लाभेन 'सन्तुष्यति'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org