________________
अध्ययनं - २९, [ नि. ५१३]
१६३
निरभिलाषो भवति, परस्य लाभं नो तर्कयति नो स्पृहयति नो प्रार्थयति तो अभिलषति, तत्र तर्कणं-मनसा यदि मह्यमसौ ददातीति विकल्पनं, स्पृहणं-तच्छ्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं-वाचा मह्यं देहीति याचनम्, अभिलषणं-तल्लालसतया वाञ्छनम्, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, एवंविधश्च यं गुणमवाप्नोति तमेवोक्तानुवादेनाह
--
‘परस्स लाभं अनासाएमाणे 'त्ति, 'अनाशयमानः ' आशाविषयमकुर्वाणाऽनास्वादयन् वाऽ भुञ्जानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन् 'दोच्चं 'ति द्वितीयां सुखशय्याम् 'उपसंपद्य' प्राप्य विहरति, एवंविधरूपत्वात्तस्याः, तथा च स्थानाङ्गम्-"अहावरा दोच्चा सुहसेज्जा- से णं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए समाणे सएणं लाभेणं सन्तूसति परस्स लाभं नो आसाएति नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसेति, से णं परस्स लाभं अनासाएमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अनभिलसमाणे नो मणं उच्चावयं नियच्छति नो विनिघायमावज्जइ'त्ति इह च ‘अनासाएमाणे' इत्युत्तरत्र वचनात् स्थानाङ्गे च दर्शनात्, पूर्वत्रापि 'नो आसाएइ'इति(बहु)वचनमनुमीयते तच्च गम्यतया न निर्दिष्टं लेखकदोषेण वा न दृश्यत इति न विद्मः । मू. ( ११४७ ) उवहिपच्चक्खाणेणं भंते! जीवे किं जणेइ ?, अपलिमंथं जणेइ, निरुवहिए णं जीवे निक्कंखे उवहिमंतरेण य न संकिलिस्सइ ॥
वृ.सम्भोगप्रत्याख्यानवतश्चोपधिप्रत्याख्यानमपि संभवतीति तदाह, तत्रोपधिः- उपकरणं तस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानं न मयाऽसौ ग्रहीतत्य इत्येवंरूपा निवृत्तिरुपधिप्रत्याख्यानं तेन परिमन्थः-स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निष्क्रान्ति उपधेर्निरुपधिको जीवः 'निष्कामः' वस्त्राद्यभिलाषरहितः सन्, एतच्च पदं क्वचिदेव दृश्यते, उपधिमन्तरेण चस्य भिन्नक्रमत्वान्न संक्लिश्यति न च मानसं शारीरं वा क्लेशमाप्नोति, उक्तं हि - "तस्स णं भिक्खुस्स नो एवं भवति-परिजुने मे वत्थे सूइं जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुन्निस्सामि वोक्कसिस्सामि " इत्यिादि ।
मू. ( ११४८ ) आहारपच्चक्खाणेणं भंते! जीवे किं जणेइ ?, जीवियासंसप्पओगं वुच्छिदइ, जीवियासंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ॥
वृ. उपधिप्रत्याख्याता चाहारमपि प्रत्याचष्टे, यतो जिनकल्पिकादिरेषणीयालाभे बहून्यपि दिनान्युपाषित एवास्तेऽत आहारप्रत्याख्यानमाह-'आहारप्रत्याख्यानेन' अनेषणीयभक्तपाननिराकरणरूपेण जीविते -प्राणधारणरूपे आशंसा-अभिलाषो जीविताशंसा तस्याः प्रयोगोव्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनं हि मनुजानां जीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छेदो भवति, पठन्ति च - "जीवियासविप्पओगं वोच्छिदिय'त्ति, तत्र जीविताशया विप्रयोगो-विविधव्यापारस्तं व्यवच्छिनत्ति, जीविताशया ह्याहार एव मुख्यो व्यापारस्ततस्तप्रत्याख्याने शेषव्यापारव्यवच्छेदः सुकर एव भवतीति, ततश्च जीविताशंसाप्रयोगं जीविताशाविप्रयोगं वा विच्छिद्य जीव: 'आहारम्' अशनादिकम् ' अन्तरेण' विना न संक्लिश्यति, कोऽर्थः ?- विकृष्टतपोऽनुष्ठानवानपि न बाधामनुभवति ।
मू. ( ११४९ ) कसायपच्चक्खाणेणं भंते! जीवे किं जणेइ ?, वीयरायभावं जणेइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org