________________
१५४
उत्तराध्ययन-मूलसूत्रम्-२-२९/१११९ कर्म 'उद्घातयति' क्षपयति, तत्क्षपणे च मुक्तिप्राप्तिरित्यर्थत उक्तैव भवति ।
मू.(११२०) गरिहणाए णं भंते! जीवे किंजणेइ?, २ अपुरकारंजणेइ, अपुरक्कारगएणं जीवे अप्पसत्थेहितो जोगेहितो नियत्तई पसत्थेहि य पडिवज्जइ, पसत्थजोगपडिपन्ने य णं अनगारे अनंतधाई पज्जवे खवेइ ।।
वृ.कश्चिदात्मनोऽत्यन्तदुष्टतां परिभावयन् न निन्दामात्रेण तिष्ठेत् किन्तु गर्हामपि कुर्यादिति तामाह-'गरिहणयाए'त्ति गर्हणेन-परसमक्षमात्मनो दोषोद्भावनने 'अपुरकारं ति पुरस्करणं पुरस्कारो-गुणवानयमिति गौरवाध्यारोपो न तथाऽपुरस्कार:-अवज्ञास्पदत्वं तं जनयत्यात्मन इति गम्यते, तथा चापुरस्कारंगतः-प्राप्तः अपुरस्कारगतः- सर्वत्रावज्ञास्पदीभूतो जीवः कदाचित्कदध्यवसायोत्पत्तावपि तद्भीतित एव 'अप्रशस्तेभ्यः' कर्मबन्धहेतुभ्यो योगेभ्यः 'निवर्त्तते' तान् न प्रतिपद्यते, प्रशस्तयोगांस्तु प्रतिपद्यत इति गम्यते, 'पसत्थजोगपडिवन्ने य'त्ति प्रतिपन्नप्रशस्तयोगोऽनगारोऽनन्तविषयतयाऽनन्ते ज्ञानदर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान् 'पर्यवान्' प्रस्तावात् ज्ञानावरणादिकर्मणस्तद्घातित्वलक्षणान् परिणतिविशेषान् 'क्षपयति' क्षयं नयति, पर्यवाभिधानं च तद्रूपतयैव द्रव्यस्य विनाश इति ख्यापनार्थम्, उपलक्षणं चैतन्मुक्तिप्राप्तेः, तदर्थत्वात्सर्वप्रयासस्य, एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या॥
मू. (११२१) सामाइएणं भंते ! जीवे किं जणेइ ?, सावज्जजोगविरई जणयइ ।।
वृ. आलोचनादीनि च सामायिकवत एव तत्त्वतो भवन्तीति तदुच्यते-'सामायिकेन' उक्तरूपेण सहावद्येन वर्तन्त इति सावद्याः-कर्मबन्धहेतवो योगा-व्यापारास्तेभ्यो विरतिःउपरमः सावद्ययोगविरतिस्तां जनयति, तद्विरतिसहितस्यैव सामायिकसम्भवात्, न चैवं तुल्यकालत्वेनानयोः कार्यकारणभावासम्भव इति वाच्यं, केषुचित्तुल्यकालेष्वपि वृक्षच्छायादिवत्कार्यकारणभावदर्शनाद्, एवं सर्वत्र भावनीयम् ॥ .
मू. (११२२) चउवीसत्थएणं भंते ! जीवे किंजणेइ ?, दंसणविसोहिं जणइ ।।
७. सामायिकं च प्रतिपत्तुकामे तत्प्रणेतारः स्तोतव्याः, ते च तत्त्वतस्तीर्थकत एवेति तत्सूत्रमाह-'चतुर्विंशतिस्तवेन' एतदवसर्पिणीप्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शनं-सम्यक्त्वं तस्य विशुद्धिः-तदुपघातिकर्मापगमतो निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति॥
मू. (११२३) वंदणएणं भंते ! जीवे किं जणेइ ?, २ नीयागोयं कम्म खवेइ उच्चागोयं निबंधइ सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेइ दाहिणभावं च णं जणेइ॥
वृ. स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनपूर्विकैव तत्प्रतिपत्तिरिति तदाह-'वन्दनकेन' आचार्याधुचितप्रतीपत्तिरूपेण 'नीचैर्गोत्रम्' अधमकुलोत्पत्तिनिबन्धनं कर्म क्षपयति, ‘उच्चैगोत्रं' तद्विपरीतरूपं निबन्धाति, सौभाग्यं च' सर्वजनस्पृहणीयतारूपम् 'अप्रतिहतं' सर्वत्राप्रतिस्खलितमत एवाज्ञा-जनेन यथोदितवचनप्रतिपत्तिरूपा फलं 'निर्वर्त्तयति' जनयति, तद्वतो हिप्राय आदेयकर्मणोऽप्युदसम्भवादादेयवाक्यताऽपिसंभवतीति, 'दक्षिणभावंच' अनुकूलभावं जनयति लोकस्येति गम्यते, तन्माहात्म्यतोऽपि सर्वः सर्वावस्थास्वनुकूल एव भवति ।
मू. (११२४ )पडिक्कमेणणं भंते! जीवे किंजणेइ?, २ वयछिद्दाइं पिहेइ, पिहियवयछिद्दे पुन जीवे निरुद्धासवे असबलचरित्ते अट्ठसुपवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरइ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org