SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २९, [ नि. ५१३] १५३ प्रशंसास्पदानि 'विनयमूलानि' विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्तिं 'साधयति' निष्पादयति, तत्किमेवं स्वार्थसाधक एवासावित्याह-अन्यांश्च बहून् जीवान् ‘विनेता' विनयं ग्राहिता, स्वयं सुस्थितस्योपादेयवचनात् उक्तं हि "ठिओ उठावए परं" ति, तथा च विनयमूलत्वादशेष श्रेयसां तत्प्रापणेन परार्थसाधकोऽप्यसौ भवत्येवेति भावः । मू. ( १११८ ) आलोयणाए णं भंते! जीवे किं जणेइ ?, २ मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्घाणं अनंतसंसारवद्धनाणं उद्धरणं करेइ उज्जुभावं च जणेइ, उज्जुभावं पडिवत्रे यणं जीवे अमाई इत्थीवेयं नपुंसगवेयं च न बन्धइ, पुव्वबद्धं च णं निज्जरइ ॥ वृ. गुरुशुश्रूषां कुर्वतोऽप्यती भारसम्भवे आलोचनात एव विवक्षितफलप्राप्तिरिति तामाहअङिति-सकलस्वदोषाभिव्याप्त्या लोचना-आत्मदोषाणां गुरुपरतः प्रकाशनाऽऽलोचना तया माया- शाठ्यं निदानं ममातस्तप:प्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकं मिथ्यादर्शनं-सांशयिकादि एतानि शल्यानीव शल्यानि ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि, यथा हि तोमरादिशल्यानि तत्कालदुःखदानेऽप्यायतौ दुःखदायीनि एवं मायादीन्यपीत्येवमुच्यते तेषां 'मोक्षविघ्नानां' पापानुबन्धकर्मबन्धनिबन्धनत्वेन मुक्त्यन्तरायाणं, तथाऽनन्तरसंसार वर्द्धयन्तिवृद्धि नयन्तीत्यनन्तसंसारवर्द्धनानि तेषाम् 'उद्धरणम्' अपनयनं करोति, तदुद्धकरणतश्च 'ऋजुभावं च' आर्जवं जनयति 'उज्जुभावपडिवन्ने य'त्ति प्रतिपन्नर्जुभावश्च जीवः 'अमायी' मायारहितस्ततः पुंस्त्वनिबन्धनत्वादमायित्वस्य 'इत्थिवेय'त्ति प्राग्वद्विन्दुलोपे स्त्रीवेदं नपुंसकवेदं च न बन्धाति, पूर्वबद्धं च तदेव द्वयं यद्वा सकलमपि कर्म 'निर्जरयति' क्षपयति, तथा च मुक्तिपदमाप्नोतित्यभिप्रायः, उक्तं हि "उद्धियदंडो साहू अचिरेण उवेइ सासयं ठाणं । सोवि अनुद्धियदंडो संसारपवड्ढओ होति ।। "त्ति मू. (१११९ ) निंदणयाए णं भंते! जीवे किं जणेइ ?, २ पच्छानुतावं जणइ, पच्छानुतावेणं विरज्जमाणे करणगुणसेढि पडिवज्जइ, करणगुणसेढिपडिवन्ने य अनगारे मोहनिज्जं कम्म उग्घाएइ || वृ. आलोचना च दुष्कृतनिन्दावत एव सफला भवतीति तामाह - 'निंदणयाए 'त्ति, आर्षत्वान्निन्दनम्-आत्मनैवात्मदोषपरिभावनं तेन 'पश्चादनुतापं' हा ! दुष्टमनुष्ठितमिदं मयेत्यादिरूपं जनयति, ततः पश्चादनुतापेन 'विरज्यामान:' वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः करणगुणश्रेणिः सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपाऽऽन्तमौहूर्तिकी, यत उक्तम्“उवरिमठिईइ दलियं हेट्ठिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण असुहाआ सुहंमि पक्खिवइ ॥" उपलक्षणत्वात्स्थितिधातरसघातगुणसंक्रमबन्धाश्च विशिष्टाः, अथवा करणगुणेन- अपूर्वकरणादिमाहात्म्येन श्रेणिः करणगुण श्रेणिः प्रक्रमात्क्षपक श्रेणिरेव गृह्यते, यद्वा करणं-पिण्डविशुद्धादि तदुपलक्षितगुणानां ज्ञानादीनां श्रेणि उत्तरोत्तरगुणपरम्परास्वरूपा तां प्रतिपद्यते 'करणगुणसेढीपडिवन्ने य'त्ति प्राग्वत्प्रतिपन्नकरणगुणश्रेणिकञ्श्चानगारः 'मोहनीयं' दर्शनमोहनीयादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy