________________
१५२
उत्तराध्ययन-मूलसूत्रम्-२-२९/१११५ रिती सिद्धिमार्गप्रतिपन्नश्च भवति ।।
मू.(१११६) धम्मद्धाए णं भंते! जीवे किं जणयइ?, २ सायासुक्खेसुरज्जमाणे विरज्जइ अगारधम्मं च णं चयइ, अनगारिए णं जीवे सारीरमानसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अव्वाबाहं च णं सुहं निव्वत्तेइ ।।
व.सत्यपि निर्वेदे धर्मश्रद्धैव सकलकल्याणनिबन्धनमिति तामाह-'धर्मश्रद्धया' उक्तरूपाया सात-सातवेदनीयं तज्जनितानि सौख्यानि सातसौख्यानि प्राग्वन्मध्यपदलोपी समासस्तेषु वैषयिकसुखेष्वितियावत् ‘रज्यमानः' पूर्वं रागं कुर्वन् ‘विरज्यते' विरक्तिं गच्छति, 'अगारधर्मं च' गृहाचारं गार्हस्थ्यमितियावत्, चशब्दश्चेह वाक्यालङ्कारे, 'त्यजति' परिहरति, तदत्यागस्य विषयैकसुखानुरागनिबन्धनत्वात्, ततश्च 'अनगार'त्ति प्राकृतत्वाद् 'अनगारी' यतिः सन् जीवः शारीरमानसानां दुःखानां किरूपाणामित्याह-'छेदनभेदनसंयोगादीना'मिति, छेदनंखङ्गादिना द्विधाकरणं भेदन-कुन्तादिना विदारणम्, आदिशब्दस्येहापि सम्बन्धात्ता-डनादयश्च गृह्यन्ते, ततश्छेदभेदनादीनां शारीरदुःखानां संयोगः-प्रस्तावादनिष्टसम्बन्धः, आदिशब्दादिष्टवियोगादिपरिग्रहः, ततश्च संयोगादीनां मानसदुःखानां विशेषेण-पुनरसम्भवलक्षणेनोच्छेदःअभावो व्युच्छेदस्तं करोति, तन्निबन्धनकर्मोच्छेदेनेति भावः, अत एव अव्याबाधम्' उपरतसकलपीडं मौक्तमितियावत्, 'चः' पुनरर्थे भिन्नक्रमस्ततः सुखं पुनः 'निर्वर्त्तयति' जनयति, पूर्वं संवेगफलाभिधानप्रसङ्गेन धर्मश्रद्धायाः फलनिरूपणमिह तु ख्यातत्र्येणेत्यपौनरुक्त्यमिति भावनीयम्॥
मू.( १११७) गुरुसाहम्मियसुस्सूसणयाए णं भंते! जीव किंजणेइ?, २ विनयपडिवत्ति जणेइ, विनयपडिवन्ने णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमनुस्सदेवदुग्गईओ निरंभइ, वन्नसंजलणपत्तिबहुमाणयाए मानुस्सदेवसुग्गइओ निबंधइ सिद्धिसुगइंच विसोहेइ पसत्थाहं च णं विनयमूलाई सव्वकज्जाइं साहइ, अन्ने य बहवे जीवे विनइत्ता हवइ ।
वृ.धर्मश्रद्धायां चावश्यं गुरवः शुश्रूषितव्या इति गुरुशुश्रूषणमाह-गुरूणां शुश्रूषणं-पर्युपासनं तेन 'विनयप्रतिपत्तीम्' उचितकत्तव्यकरणाङ्गीकाररूपां जनयति 'विनयपडिवन्ने य'त्ति प्राग्वत् प्रतिपन्नः-अङ्गीकृतो विनयो येन स तथा 'चः' पुनरर्थे जीवः 'अनच्चासायणासीले'त्ति अतीवाऽऽयं-सम्यक्त्वादिलाभं शातयति-विनाशयतीत्यत्याशातना तस्यां शीलं-तत्करणस्वभावात्मकमस्येत्यत्याशातनाशीलो न तथाऽनत्याशातनाशी:, कोऽर्थः ?-गुरुपरिवादादिपरिहारकृत्, एवंविधश्च नैरयिकतिर्यग्गोनिकमनुष्यदेवदुर्गतीरिति-नैरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनिः स्वाथिके के नैरयिकतिर्यग्योनिके-प्रतीते 'मनुष्यदेवदुर्गती च' म्लेच्छकिल्बिषित्वादिलक्षणे 'निरुणद्धि' निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्, तथा वर्ण:-श्लाघा तेन सञ्जवलनं-गुणोद्भावनं वर्णसञ्जवलनं भक्तिः-अञ्जलिप्रग्रहादिका बहुमानम्-आन्तरप्रीतिविशेष एषां द्वन्द्वे भावप्रत्यये च वर्णसञ्जवलनभक्तिबहुमानता तयाप्रक्रमाद्गुरूणां विनयप्रतिपत्तिरूपया 'माणुस्सदेवसोग्गइओ'त्ति मानुष्यदेवसुगती: विशिष्टकुलैश्वर्येन्द्रत्वाद्युपलक्षिता निबन्धाति तत्प्रायोग्यकर्मबन्धनेनेति भावः, सिद्धिसोग्गइं'त्ति सिद्धिसुगतिं च विशोधयति, तन्मार्गभूतसम्यग्दर्शननादिविशोधनेन, 'प्रशस्तानि' च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org