________________
अध्ययनं-२९,[नि.५१३]
१५१ अत्थेगइया तेनेवणं भगव्वहणेणं सिझंति बुज्झति विमुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, सोहीए य णं विसुद्धाएं तच्चं पुनो भगवग्गहणं नाइक्कमंति॥
वृ. सर्वस्य चास्य प्रयासस्य मुक्तिरेव फलं तत्र च प्रवृत्तिरभिलाषपूर्विका तद्रूपश्च संवेग इत्यादितस्तमाह-संवेगोमुक्त्यभिलाषस्तेन भदन्त ! इति पूज्याभिमन्त्रणं 'जीवः किं जनयति ?' जन्तुः कतरं गुणमुत्पादयतीति योऽर्थः ?, इति शिष्यप्रश्नः, अत्र प्रज्ञापकः प्रतिवचनमाह-संवेगेन अनुत्तरां' प्रधानां धर्मः- श्रुतधर्मादिस्तत्र श्रद्धा-तत्करणाभिलाषरूपा धर्मश्रद्धा तां जनयति, तदभावे हि न तत्सम्भवो, भावेऽपि वा देवलोकादिफलैवासाविति नानुत्तरत्वमस्याः, तयाऽपि किमित्याह-अनुत्तरया धर्मश्रद्धया संवेगंतमेवार्थाद्विशिष्टतरं 'हव्वं'ति शीघ्रमागच्छति, तद्यतिरेकेण हि विषयाद्यभिलाषतो न तथाऽस्मिन्नागमनम्, अनुत्तरश्रद्धायां त्वन्यत्र निरभिष्वङ्गतया नान्यथात्वसम्भवः, ततोऽपि किमित्याह-'अनन्तानुबन्धिक्रोधमानमायालोभान्' वक्ष्यमाणलक्षणान् क्षपयति, तथा 'कर्म' प्रस्तावादशुभप्रकृतिरूपं 'न बन्धाति' न श्लेषयति, एवमपि को गुणः?, इत्याह
सकपायक्षयः प्रत्ययो-निमित्तं यस्याः सा तत्प्रत्यया सैव तत्प्रत्ययिका स्वार्थे कन् प्रत्ययस्तां, 'चः' कर्माबन्धकत्वापेक्षया समुच्चये, मिथ्यात्वस्य 'विसोहि'त्ति विशोधनं विशुद्धिःसर्वथा क्षयो मिथ्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य-प्रस्तावात्क्षायिकसम्यक्त्वस्याराधकोनिरतिचारपालनाकृद्दर्शनाराधको भवति, तथाऽपि किमित्याह-दर्शनविशुद्धा च 'विशुद्धा' अत्यन्तनिर्मलया 'अस्ति' विद्यते 'एगय'त्ति एककः कश्चित्तथाविधो भवस्तेनैव भवग्रहणेन' जन्मोपादानेन सिद्धति, किमुक्तं भवति? -यस्मिन्नेव जन्मनि दर्शनस्य तथाविधा शुद्धिस्तत्रैव मुक्तिं गच्छति, यथा मरुदेवी स्वामिनी, यस्तु न तेनैव सिद्धति स किमित्याह-शुद्धा प्रक्रमादर्शनस्य विशुद्धा 'तच्चं'ति तृतीयं पुनर्भवग्रहणम्-अन्यजन्मोपादानात्मकं 'नातिकामति' नातिवर्त्तते, अवश्यं तृतीयभवग्रहणे सिद्धतीत्यर्थः, उत्कृष्टदर्शनाराधकापेक्षयैतत्,
__ "उक्कोसदसणे णं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्झिज्जा?,
गोयमा ! उक्कोसेणं तेनेव, ततो मुक्के तइयं नाइक्कमति॥" । मू.(१११५) निव्वेएणं भंते ! जीवे किं जणयइ?, निव्वेएणं दिव्वमानुस्सतिरिच्छएसु कामभोएसु निव्वेयं हव्वमागच्छइ सव्वविसुएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ सिद्धिमग्गपडिवन्ने य हवइ॥ __ वृ.संवेगाच्चावश्यम्भावी निर्वेद इति तमाह-इतः प्रभृति सर्वत्र सुगमत्वान्न प्रश्नव्याख्या, 'निर्वेदेन' सामान्यतः संसारविषयेण-कदाऽसौ त्यक्ष्यामीत्येवंरूपेण दिव्यमानुषतैरश्चेषु, सूत्रत्वात्कप्रत्ययः, यथासम्भवं देवादिसम्बन्धिषु कामभोगेषूक्तरूपेण निर्वेदं हव्वमागच्छति यथा-अलमेतैरनर्थहेतुभिरिति, तथा च सर्वविषयेषु विरज्यते' अशेषशब्दादिविषयं विरागमाप्नोति, विरज्यमानस्तेषु आरम्भः-प्राण्युपमर्दको व्यापारस्तत्त्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं कुर्वन् 'संसारमार्ग' मिथ्यात्वाविरत्यादिरूपंव्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागसम्भवात्, तद्यवच्छित्तौ च सुप्राय एव सिद्धिमार्गः- सम्यग्दर्शनादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org