________________
अध्ययनं-२९,[ नि.५१३]
१५५ - वृ.एतद्गुणस्थितेनापि मध्यमतीर्थकृतां तीर्थेषु स्खलितसम्भवे पूर्वपश्चिमयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह-'प्रतिक्रमणेन' अपराधेभ्यः प्रतीपनिवर्त्तनात्मकेन व्रतानांप्राणातिपातनिवृत्त्यादीनां छिद्राणि-अतिचाररूपाणि विवराणि व्रतच्छिद्राणि 'पिदधाति' स्थगयति अपनयतीतियावत्, तथाविधश्च कं गुणमवाप्नोतित्याह-पिहितव्रतच्छिद्रः पुनर्जीवः 'निरुद्धाश्रवः' सर्वथा हिंसाद्याश्रवाणां निरुद्धत्वात्, अत एवासबलं-सबलस्थानैरकर्बुरीकृतं चरित्रं यस्य स तथा, 'अष्टसु प्रवचनमातृषु' उक्तरूपासु उपयुक्तः' अवधानवान्तत एवाविद्यमानं पृथक्त्वं-प्रस्तावात्संयमोद्योगेभ्यो वियुक्तस्वरूपं यस्यासौ अपृथक्त्व:-सदा संयमयोगवान् (अ) प्रमत्तो वा पाठान्तरात्, तथा 'सुप्रणिहितः' सुष्ठु संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठ प्रणिहितानि-असन्मार्गात् प्रच्याव्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियः 'विहरति' सयमाध्वनि याति।
मू.(११२५) काउस्सग्गेणं भंते ! जीवे किंजणेइ?, २ तीयपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरुव्व भारवहे धम्मज्झाणोवगए सुहं सुहेणं विहरइ॥
वृ.अत्र चातीचारशुद्धिनिमित्तं कायोत्सर्गः कर्त्तव्य इति तमाह-कायः शरीरंतस्योत्सर्गःआगमोक्तनीत्या परित्यागः कायोत्सर्गस्तेन, अतीतं चेह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासनकालभावितयाऽतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' उपचारात्प्रायश्चित्ताहमतीचारं 'विशोधयति' तदुपाजितपापापनयतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं-स्वस्थीभूतं हृदयम्-अन्तःकरणमस्येति निर्वृत्तहृदयः, क इव?-'ओहरिय'त्ति अपहृतः-अपसारितो भर इति-भारो यस्मात्स तथा, इवेति भिन्नक्रमः, ततो भारं वहतीति मूलविभुजादेराकृतिगणत्वात्कप्रत्यये भारवहो-वाहीकादिः स इव, भारपाया हतीचारास्ततस्तदपनयनेऽपहतभरभारवाह इव निर्वृत्तहृदयो भवतीति भावार्थः, स च ध्यानं-धर्माद्युपगतः प्राप्तो ध्यानोपगतः पाठान्तरतः प्रशस्तध्यानध्यायी 'सुखंसुखेन' सुखपरम्परावाप्त्या 'विहरति' इहपरलोकयोरवतिष्ठते, इहैव जीवन् मुक्त्यवासेरिति भावः॥
मू.(११२६) पच्चक्खाणेणं भंते! जीवे किंजणेइ?, २ आसवदाराई निरंभइ पच्चक्खाणेणं इच्छा निरोहं जणयइ इच्छानिरोहं गए णं जीवे सव्व दव्वेसु विनीयतण्हे सीइभूए विहरइ॥
वृ. एवमप्यशुद्धमाने प्रत्याख्यानं विधेयमिति तदाह-'प्रत्याख्यानेन' मूलगुणोत्तरगुणप्रत्याख्यानरूपेणा श्रवद्वाराणि निरुणद्धि, तन्निरोधहेतुत्वात्तस्य, उपलक्षणं चैतत्, पुरोपचितकर्मक्षये मुक्त्यङ्गत्वेनास्यान्यत्रोक्तत्वात्, तथा चाह
"पच्चक्खाणमिणं सेविऊण भावेण जिनवरुद्दिटुं।
__ पत्ताऽनंता जीवा सासयसोक्खं लहुं मोक्खं ।" मू. (११२७) थयथुइमंगलेणं भंते ! जीवे किं जणेइ ?, २ नाणदंसणचरित्तबोहिलाभं संजणइ, नाणदसणचरित्तबोहिलाभसंपन्ने णं जीवे अंतकिरियं कप्पविमानोववत्तियं आराहणं आराहेह॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org