________________
अध्ययनं - २८, [ नि. ५०६ ]
भक्तपानादिनोचितप्रतिपत्तिकरणं तच्च प्रभावना च तथा तथा स्वतीर्थोन्नतिहेतुचेष्टासु प्रवर्त्तनात्मिका वात्सल्यप्रभावने, उपसंहारमाह- अष्टैते दर्शनाचारा भवन्तीतिवशेषः, एभिरेवाष्टभिराचार्यमाणस्यास्योक्तफलसम्पादकतेति भावः, एतच्च ज्ञानाचाराद्युपलक्षकं, यद्वा दर्शनस्यैव यदाचारभिधानं तदस्यैवोक्तन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः ॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय पुनस्तमेव चारित्ररूपमुपदिदर्शयिषुर्भेदकथनत एव तत्स्वरूपमुपदर्शितं भवतीति मन्वान इदमाह
मू. ( ११०७ )
सामाइयऽत्थ पढमं छेदोवट्ठावणं भवे बितियं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ अकसाय अहक्खायं, छउमत्थस्स जिनस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥
मू. ( ११०८ )
वृ. समिति-साङ्गत्येनैकीभावेन वा आयो- गमनं, कोऽर्थः ? - प्रवर्त्तनं, समायः स प्रयोजनमस्य सामायिकं, तदस्य प्रयोजन" मिति ठक्, तच्च सकलसावद्यपरिहार एव, तत्रैव सति साङ्गत्येन स्वपरविभागाभावेन च सर्वत्र प्रवृत्तिसम्भवात्, यद्वा समो--रागद्वेषविरहितः स चेह प्रस्तावाच्चित्त परिणामस्तस्मिन्नायो - गमनं समायः स एव सामायिकं, विनयादेराकृतिगणत्वात्स्वार्थिक: ठक्, इदमपि सर्वसावद्यविरतिरूपमेव, चेति पूरणे, 'प्रथमम्' आद्यम्, एतच्च द्विधा- इत्वरं यावत्कथिकं च, तत्रेत्वरं भरतैरावतयोः प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयचारित्रभावेन तत्र तद्यपदेशाभावात्, यावत्कथिकं च तयोरेव मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनामाय अभावेन तद्यपदेशस्य यावज्जीवमपि सम्भवात्, तथा छेदः-सातिचारस्य यतेर्निरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपस्तुद्युक्तोपस्थापना महाव्रतारोपणरूपा वस्मिंस्तच्छेदोपस्थापनं भवेद्वितीयम्, तथा परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिस्मिन्निति परिहारविशुद्धिकं, तच्चैतद्गाथाभ्योऽवसेयम्
"परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सहवासकाले भणिओ धीरेहिं पत्तेयं ॥१॥ तत्थ जहन्नो गिम्हे चउत्थ छट्टं तु होइ मज्झमओ । अट्टममिहमुकोसो इत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई छट्ठाई दसमचरमगो होई । वासासु अट्टमाई बारसपज्जंतगो नेओ ॥३॥ पारणए आयामं पंचसु पगहो दोसऽभिग्गहो भिक्खो । कप्पट्ठिया य पइदिण करेंति एमेव आयामं ॥४॥ एवं छम्मासतवं चरिउं परिहारिया अनुचरंति । अनुचरगे परिहारगयपयट्ठिए जाव छम्मासा ॥५॥ कप्पट्ठिओऽवि एवं छम्मासतवं करेइ सेसा उ ।
29/10
Jain Education International
For Private & Personal Use Only
१४५
www.jainelibrary.org