SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ उत्तराध्ययन-मूलसूत्रम्-२-२८/११०३ सूत्रार्थः । इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय सम्प्रति तस्यैव माहात्म्यमुपदर्शयन्निदमाहमू.(११०४) नत्थि चरितं संमत्तविहूणं दंसणे उ भइयव्वं। संमत्तचरित्ताई जुगवं पुव्वं व संमत्तं ।। मू.(११०५) नादंसणिस्स नाणं नानेन विना न हुंति चरणगुणा। अगुणिस्स नत्थि मुक्खो नत्थि अमुक्खस्स निव्वाणं । वृ. 'नास्ति' न विद्यते उपलक्षणत्वान्नासीन्न च भविष्यति, किं तत् ?-चारित्रं कीदृक् ?'सम्यक्त्वविहीनं' दर्शनेन विरहितं, किमुक्तं भवति?-यावन्न सम्यक्त्वोत्पादो न तावच्चारित्रं, किमेवं दर्शनमपि चारित्रे नियतमित्याह-'दर्शने तु' सम्यक्त्वे पुनः सति भक्तव्यं भवति वा न वा, प्रक्रमाच्चारित्रम्, अतो न तत्तत्र नियतं, किमित्येवमत आह-सम्यक्त्वचारित्रे 'युगपद्' एककालमुत्पद्यते इति शेषः । 'पुव्वं वत्ति पूर्वं चारित्रोत्पादात् सम्यक्त्वमुत्पद्यते ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु तथाविधक्षयोपशमाभावतो न तथोत्पादस्तदा सत्यपि सम्यक्त्वे न चारित्रमिति तद्दर्शने भाज्यमुच्यते। अन्यच्च “नादर्शनिनः' दर्शनविरहितस्य 'ज्ञान'मिति सम्यग्ज्ञानं 'ज्ञानेन विना' ज्ञानविरहिताः 'न भवन्ति' न जायन्ते, के ते?-चरणगुणाः, तत्र च चरणं-व्रतादि गुणाः-पिण्डविशुद्धादयः, 'अगुणिनः' अविद्यमानगुणस्य चरणविनाभावित्वाद्यथोक्तगुणानामाविद्यमानचरण च, यदिवा प्राक् चरणान्तर्गता गुणाश्चरणगुणा इति व्याख्यातास्तत इहापित एव गृह्यन्ते, नास्ति 'मोक्षः' सकलकर्मक्षयलक्षणो, नास्त्यमुक्तस्य कर्मणेति गम्यते 'निवार्ण' निर्वृत्तिर्मुक्तिपदप्राप्तिरितियावत्, तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चारित्रस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तम्, अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनिना शेषगुणानां, व्यतिरेकस्यान्वयाक्षेपकत्वादिति सूत्रद्वयार्थः ।। अस्य चाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तानादर्शयितुमाहमू.(११०६) निस्संकिय निक्कंखिय निव्वितिगिच्छं अमूढदिट्ठी य। उववूहथिरीकरणं वच्छल्लपभावणेऽद्रुते॥ वृ. शङ्कनं शङ्कितं-देशसर्वशङ्कात्मकं तस्याभावो निःशङ्कितं, एवं काशणं काङ्कितंयुक्तियुक्तत्वादहिंसाद्यभिधायित्वाच्च शाक्योलूकादिदर्शनान्यपि सुन्दराण्येवेत्यन्यान्यदर्शनग्रहात्मकं तदभावो निष्कासितं, प्राग्वदुभयत्र बिन्दुलोपः, विचिकित्सा-फलं प्रति सन्देहो यथा-किमियत: क्लेशस्य स्यादुत नेति?, तन्त्रन्यायेन 'विदः' विज्ञाः ते च तत्त्वतः साधव एव तज्जुगुप्सा वा यथा-किममी यतयो मलदिग्धदेहा:?, प्रासुकजलस्नाने हि क इव दोषः स्यादित्यादिकानिन्दा तदभावो निविचिकित्सं निविजुगुप्सं वा, आर्षत्वाच्च सूत्र एवं पाठः, 'अमूढा' ऋद्धिमत्कृतीथिकदर्शनेऽप्यनवगीतमेवास्मदर्शनमिति मोहविरहिता सा चासौ दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽप्यान्तर आचारः, बाह्यं त्वाह 'उववूह'त्ति, उपबृंहणमुपबृंहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणंच -अभ्युपगम (त) धर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादनमंपळहास्थिरीकरणे, वत्सलभावो वात्सल्यं-साधर्मिकजनस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy