________________
अध्ययनं-२८,[नि. ५०६] तीति, 'चः' समुच्चये स ईदृग् विस्ताररुचिरिति ज्ञातव्यो, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्-"सद्दहइ जाणति जतो"।
क्रियारुचिमाह-दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुक्तरूपे तथा तपो-- विनये सत्याः-निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च-अविसंवादनयोगाद्यात्मकं समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, क्रियाभावरुचिः, किमुक्तं भवति?-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः 'खलु' निश्चितं क्रियारुचिः नामेति प्रकाशं, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपः-प्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यङ्गत्वख्यापनार्थम्।
सङ्केपरुचिमाह-अनभिगृहीता-अनङ्गीकृता कुदृष्टी:-सौगतमतादिरूपा येन स तथा सङ्केपरुचिरिति भवति ज्ञातव्यः, अविशारदः' अकुशलःप्रवचने' सर्वज्ञशासने 'अनभिग्गहिओ य सेसेसु'त्ति अविद्यमानमभीति-आभिमुख्येन गृहीतं ग्रहणं-ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः, 'चः' समुच्चये, अनभिगृहीतश्च क्वे त्याह- शेषेषु' कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्यवच्छेदार्थमेतत्, अयमाशयः-य उक्तविशेषणः सङ्केपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्केपरुचिरुच्यते।
धर्मरुचिमाह-योऽस्तिकायानां-धर्मादीनां धर्मो-गत्युपष्टम्मादिरस्तिकायधर्मस्तं जातावेकवचनं, श्रुतधर्मम्' अङ्गप्रविष्टाद्यागमस्वरूपं 'खलुः' वाक्यालङ्कारे 'चरित्रधर्मं वा' सामायिकादि, वस्य चार्थत्वात्, ‘श्रद्दधाति' तथेति प्रतिपद्यते 'जिनाभिहितं' तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यो, धर्मेषु-पर्यायेषु धर्मे वा-श्रुतधर्मादौ रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः ।।
कैः पुनर्लिङ्गैरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याहमू. (११०३) परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वावि।
वावन्नकुदंसणवज्जणा य संमत्तसद्दहणा। वृ. परमाश्च ते तात्त्विकत्वेनार्थाश्चार्यमाणत्वेन परमार्था:-जीवादयस्तेषु संस्तवो-गुणकीर्तनं तत्स्वरूपं पुनः पुनः परिभावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षयः समुच्चये, तथा सुष्ठ-यथावद्दर्शितया दृष्टा-उपलब्धाः परमार्था-जीवादयो यैस्ते सुदृष्टपरमार्थाआचार्यादयस्तेषां सेवनं-पर्युपासनम्, इहोत्तरत्र च (प्राकृतत्वात्) सूत्रत्वाच्च स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, 'अपिः' पूर्वापेक्षः समुच्चये, 'वावन्नकुदंसण'त्ति दर्शनशब्दः प्रत्येकमभिसंबध्यते ततो व्यापन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शना:-यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तं, तथा कुत्सितं दर्शनं येषां ते कुदर्शना:शाक्यादयस्तेषांच वर्जनं-परिहारो व्यापन्नकुदर्शनवर्जनं,मा भूदेतपरिहारतः सम्यक्त्वमालिन्यमिति, 'चः' समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां संभवाद्यभिचारिता, तात्त्विकानामेवैषामिहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति Jain Education International
For Private & Personal Use Only
www.jainelibrary.org