________________
१४२
उत्तराध्ययन- मूलसूत्रम् - २ - २८ / ११०२ यः ‘जिनदृष्टान्’ तीर्थकरोपलब्धान् 'भावान्' जीवादिप-दार्थान् 'चतुर्विधान्' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान् ' श्रद्दधाति' तथेति प्रतिपद्यते 'स्वयमेव' परोपदेशं विना, श्रद्धानोल्लेस्वमाह- 'एमेय'त्ति एवमेतद्यथा जिनैर्दष्टं जीवादि, 'नान्यथेति' नैतद्विपरीतं, 'चः' समुच्चये, स ईदृग्निसर्गरुचिरिति ज्ञातव्यः, निसर्गेण रुचिरस्येतिकृत्वा, उपदेशरुचिमाहएतांश्चैवानन्तरोक्तान 'भावान्' जीवादीन् पदार्थान् 'उपदिष्टान्' कथितान् 'परेण' अन्येन श्रद्दधाति कीदृशा परेण ? - छादयतीति छद्मधातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थः-अनुत्पन्नकेवलस्तेन, जयति रागादिनिति जिनः, औणादिको णक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकुदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाज्जिनस्य प्राचुर्येण वा तथाविधोपदेष्टृणां सक् किमित्याह - उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः ।
आज्ञारुचिमाह-‘रागः' अभिष्वङ्गः 'द्वेषः' अप्रीतिः ‘मोहः ' शेषमोहनीयप्रकृतयः ‘अज्ञानं' मिथ्याज्ञानरूपं यस्य ‘अपगतं' नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते, एतदपगमाच्च 'आणाए 'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यदिसम्बन्धिन्या रोचमानः' क्वचित्कुग्रहाभावज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत सः 'खलु' निश्चितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्य:, आज्ञया रुचिरस्य यतः ।
सूत्ररुचिमाह-य: ‘सूत्रम्' आगमम् 'अधीयानः ' पठन् 'श्रुतेन' इति सूत्रेणाधीयमानेन 'अवगाहते' प्राप्नोति ‘तुः पूरणे सम्यक्त्वं कीदृशा श्रुतेन ? - 'अङ्गेन' आचादिनो 'बाह्येन', अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, 'सः' उक्तलक्षणो गोविन्दवाचकवत्, सूत्ररुचिरिति ज्ञातव्य:, सूत्रहेतुकत्वादस्य रुचेः । बीजरुचिमाह-'एकेन' प्रक्रमात्पदेन जीवादिना 'अनेगाइं पयाई 'सि सुब्बयत्ययाद् 'अनेकेषु' बहुषु 'पदेषु' जीवादिषु यः 'प्रसरति' व्यापितया गच्छति ‘तुः’ एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैवात्मना प्रसरणं, क्वेव कः पसरति ?-उदक इव तैलबिन्दुः यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्त्वैकदेशोत्पन्नरुचिप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेषु रुचिमान् भवति, एवंविधो बीजरुचिर्ज्ञातव्यः, यथा हि बीजं क्रमेणानेकबीजानां जनकमेवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति ।
स
अभिगमरुचिमाह-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः - अभिधेयस्तमाश्रित्य 'दृष्टम्' उपलब्धं, किमुक्तं भवति ? - येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं, तत: 'प्रकीर्णकानि' उत्तराध्ययनादीनि 'दृष्टिवादः ' परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थं, चशब्दादुपाङ्गान्यौपपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः ।
विस्ताररुचिमाह-'द्रव्याणां' धर्मास्तिकायादीनां 'सर्वभावा: ' एकत्वपृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा-यस्य तत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सव्वहिं’ति‘सर्वैः' समस्तैः 'नयविधिभिः ' नैगमादिभेदैरमुं भावमयममुं वाऽय नयभेद इच्छ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org