________________
१४१
अध्ययनं-२८,[नि.५०६] विस्तारुची इति, तथा क्रिया-अनुष्ठानं सङ्केपः-संग्रहो धर्म:- श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिर्धर्मरुचिः सङ्केपरुचिश्च भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्वख्यापनार्थमिति सूत्रसङ्केपार्थः । व्यासार्थं तु स्वत एवाह सूत्रकृत्मू. (१०९२) भूअत्थेणहिगया जीवाऽ जीवा य पुन्न पानं च।
सहसंमुइआ आसवसंवरु रोएइ उनिसग्गो। मू.(१०९३) जो जिनदिढे भावे चउबिहे सद्दहाइ सयमेव ।
एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वो।। मू.(१०९४) एए चेव उ भावे उवढे जो परेण सद्दहइ।
छउमत्थेण जिने व उवएसरुइत्ति नायव्वो॥ मू.(१०९५) रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ।
आणाए रोयंतो सो खलु आणारुईनाम। मू.(१०९६) जो सुत्तमहिज्जतो सुएण ओगाहई उ संमत्तं ।
अंगेन बाहिरेण व सो सुत्तरुइत्ति नायव्वो। मू. (१०९७) एगेण अनेगाइं पयाइं जो पसरई उसम्मत्तं।
उदयव्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो। मू.(१०९८) सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिटुं।
___इक्कारस अंगाई पइन्नगं दिट्ठिवाओ य॥ मू.(१०९९) दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा।
सव्वाइं नयविहीहि य वित्थाररुइत्ति नायव्वो॥ मू.(११००) दसणनाणचरिते तवविनए सच्चसमिइगुत्तीसु।
जो किरिया भावरुई सो खलु किरियारुई नाम॥ मू.(११०१) अनभिग्गहि य कुदिट्ठी संखेवरुईति होइ नायव्यो।
अविसारओ पवयणे अनभिग्गहिओ असेसेसु॥ मू. (११०२) जो अत्थिकायधम्म सुयधम्म खलु चरित्तधम्मंच।
सद्दहइ जिनाभिहियं सो धम्मरुइत्ति नायव्वो॥॥ वृ. भूतः सद्भूतोऽवितथ इतियावत् तथाविधोऽर्थो-विषयो यस्य तद्भूतार्थं ज्ञानमिति गम्यते तेन, भावप्रधानत्वाद्वा निर्देशः(स्य), भूतार्थत्वेन-सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधिगता वा परिच्छिन्ना येनेति गम्यते, जीवाजीवाश्चोक्तरूपाः पुण्यं पापंच, कथममी अधिगता इत्याह-'सहसंमुइअ'त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या संगता मति: सं(सहसं)मतिः, कोऽर्थः?-परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, 'आसवसंवरे य'त्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च, तथा 'रोचते' श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एव योऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान् जीवाजीवादीनेव 'निसर्ग'इति निसर्गरुचिविज्ञेय, स इति शेषः । अमुमेवार्थं पुनः स्पष्टतरमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org