SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ उत्तराध्ययन-मूलसूत्रम्-२-२८/११०८ अनुपरिहारगभावं चरंति कट्ठियत्तं च ।।६।। एवेसो अट्ठारसमासपमानो उ वन्निओ कप्पो। संखेवओ विसेसो विसेससुत्ताउ नेयव्वो।।७।। कप्पसमत्तीय तयं जिनकप्पं वा उवेंति गच्छं वा। पडिवज्जमाणगा पुन जिनस्सगासे पवज्जंति॥८॥ तित्थयरसमीवासेवगस्स पासे नो य अन्नस्स। एएसिं जं चरणं परिहारविसुद्धिगं तं तु ।।९॥ 'सुहुमं तह संपरायं च'त्ति, 'तथे' त्यानन्तर्ये, छन्दोभङ्गतया चै(भयाच्चै)वमुपन्यस्तः, सूक्ष्मः-किट्टीकरणत: संपर्येति-पर्यटति अनेन संसारमिति संपरायो-लोभाख्यः कषायो यस्मिस्तत्सूक्ष्मसम्परायम्, एतच्चोपशमश्रेणिक्षपक श्रेण्योर्लोभाणुवेदनसमये संभवति, यत उक्तम् "लोभाणुं वेदंतो जो खलु उवसामओ व खमओ व। सो सुहुमसंपरायो अहखया ऊणओ किंचि ॥" तथा 'अकषायम्' अविद्यमानकषायं क्षपितोपशमितकषायावस्थाभावि, इह चोपशमितकषायावस्थायामकषायत्वं कषायाकार्याभावात्, 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत्, 'छद्मस्थस्य' उपशान्तक्षीणमोहाख्यगुणस्थानद्वयवत्तिनः 'जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः, वी समुच्चये, यथैतत्पञ्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह-'एतद्' अनन्तरोक्तं सामायिकादि चयस्य-राशेः प्रस्तावात्कर्मणां रिक्तंविरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रमिति नैरुक्तो विधिः, आहवक्ष्यति "चरित्तेण निगिण्हाति तवेण य वि(परि)सुज्झति'त्ति कथं न तेनास्य विरोधः?, उच्यते, तपसोऽपि तत्त्वतश्चारित्रान्तर्गतत्वात्, भवति 'आख्यातं' कथितमर्हदादिभिरिति गम्यत इति सूत्रद्वयार्थः ।। सम्प्रति तपश्चतुर्थं कारणमाहमू. (११०९) तवो अदुविहो वुत्तो, बाहिर भतरो तहा। बाहिरो छव्विहो वुत्तो, एवमभितरो तवो। वृ.तपश्च द्विविधमुक्तं, 'बाहिर'त्ति बाह्यमाभ्यन्तरं, तथा तत्र बाह्यं षड्विधमुक्तमेवामितिषड्विधमाभ्यन्तरं तप उक्तमिति सूत्रार्थः, भावार्थस्तु तपोऽध्ययन, एवाभिधास्यते । आहएषां मुक्तिमार्गत्वे कस्य कतरो व्यापार:?, उच्यतेमू.(१११०) नाणेन जाणइ भावे, संमत्तेण य सद्दहे। चरित्तेन निगिण्हाइ, तवेण परिसुज्झई॥ वृ. ज्ञानेन' मत्यादिना 'जानाति' अवबुध्यते भावान्' जीवादीन् ‘दर्शनेन च' उक्तरूपेण 'सद्दहि'त्ति श्रद्धत्ते चारित्रेण-अनन्तराभिहितेन 'निगिण्हाति'त्ति निराश्रवो भवति, पठ्यते च'न गिण्हति'त्ति, तत्र 'न गृह्णाति' नादत्ते कर्मेति गम्यते 'तपसा परिशुद्धति' पुरोपचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अनण्यहफले तवे वोदाणफले"त्ति, इति सूत्रार्थः । अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति तत्फलभूतां गतिमाहमू.(११११) खवित्ता पुव्वकम्माई, संजमेण तवेण य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy