________________
अध्ययनं - २८, [ नि. ५०६ ]
१३७
स्तिकाय इति, अत्र च नैयायिकादिः सौगतो वा वदेत्-नास्ति अधर्मास्तिकायः, , अनुपलभ्यमानत्वात्, शशविषाणवत्, तत्र यदि नैयायिकादिस्तदाऽसौ वाच्यः कथं भवतोऽपि दिगादयः सन्ति ?, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद् भवति हि कार्यात्कारणानानम्, एवं सति स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते ?, अथ तत्र दिगादिप्रत्ययकार्यस्यान्यतोऽसम्भवात्कारणभूतान् दिगादीननुमिमीमह इति मतिः, इहाप्याकाशादीनामवगाहदानादिस्वस्वकार्यव्यापृतत्वेन ततोऽसम्भवादधर्मास्तिकायस्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते ?, अथासौ न कदाचिद् दृष्टः ?, एतद्दिगादिष्वपि समानम् ।
अथ सौगतः सोऽप्येवं वक्तव्यः यथा-भवतः कथं बाह्यार्थसंसिद्धि: ? न हि कदाचिदसौ प्रत्यक्षगोचर:, साकारज्ञानवादिनः सदातदाकारस्यैव संवेदनात्, तथा च तस्याप्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत्कारणमर्थः परिकल्प्यते, धूमज्ञान इवाग्निः, एवं सति स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः ?, अथायमप्यभिदधीत न कदाचिदसौ तत्कारणत्वेनेक्षित इति, ननु बाह्यार्थेऽपि तुल्यमेतत्, न हि सोऽपि तदाकारकारितया कदाचिदवलोकितः, अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो न तु नियता (त) कारणत्वे, अतस्तत्रार्थ: कारणं कल्प्यते, एवं तर्हि जीवपुद्गलौ परिणाममात्र एव कारणं, स्थितिपरिणतौ पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इति किं न कल्प्यते ?, अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत्, नन्वेवमर्थाऽपि तर्हि स्वपरगतौ विश्रसाप्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्यामः,
तथा ‘भाजनम्' आधार: 'सर्वद्रव्याणां' जीवादीनां 'नभः' आकाशम्, अवगाहः - अवकाशस्तल्लक्षणमस्येत्यवगाहलक्षणं तद्धवगाढुं प्रवृत्तानामालम्बनीभवति, अनेनावगाहकारणत्वमाकाशस्योक्तं, न चास्य तत्कारणत्वमसिद्धं, यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्यं, यथा चक्षुराद्यन्वयव्यतिरेकानुविधायि रूपादिविज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाह:, तथाहि - शुषिररूपमाकाशं, तत्रैव चावगाहो, न तु तद्विपरिते पुद्गलादौ, अथैवमलोकाकाशेऽपि कथं नावगाह: ?, उच्यते, स्यादेवं यदि कश्चिदवगाहिता भवेत्, तत्र तु धर्मास्तिकायस्य जीवादीनां चासत्त्वेन तस्यैवाभाव इति कस्यासौ समस्तु ?, नन्वेवमपि न तत्सिद्धिः, हेतोरसिद्धत्वात्, तदसिद्धिश्चान्वयाभावात्, सति हि तस्मिन् भवनमन्वयो, न च तत्सत्त्वसिद्धिरस्ति, अन्वयाभावे च व्यतिरेकस्याप्यसिद्धिरिति, ननु कथं न तत्सत्त्वसिद्धि: ?, अथ भित्त्याद्यभाव एवाकाशमिति, एवं सत्याकाशाभाव एव भित्त्यादय इत्यपि किं न भवति ?, अथ तेषां प्रमाणप्रतीतत्वाद्, इहापि किं न प्रमाणप्रतीति: ?, तथाहि - वियति विहग इत्यादि प्रतीत्यन्यथानुपपत्त्याऽनुमानतस्तत्सिद्धिः, न चेयं प्रतीतिरन्यथाऽपि संभवतीति न ततस्तत्सिद्धिरिति (वक्तुं ) युक्तम्, एवं हि भित्त्यादिप्रतीतेरपि भित्त्याद्यभावेऽपि भावकल्पनया तेषामप्यभावप्रसक्तिः,
अथ तत्प्रतीतेः प्रामाण्यनिश्चय इति नान्यथात्वकल्पना, एवं तर्हि वक्तव्यं कुतोऽस्याः प्रमाणनिश्चयः,?, किं प्रमाणान्तरानुग्रहाद्बाधकाभावाद्वा ?, यदि प्रमाणान्तरानुग्रहात् किं तत्प्रमाणान्तरं?, य इहाबाधितप्रत्ययः स सर्वः प्रमाणं, यथा सुखादिप्रत्ययः, बाधितप्रत्ययाश्चामी भित्या
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org