________________
१३६
उत्तराध्ययन- मूलसूत्रम् - २ - २८ / १०८२ द्रव्याणीति शेष:, प्रसङ्गतो लोकस्वरूपमप्याह-एष इत्यादि, सुगममेव, नवरमेष इति - सामान्यत: प्रतीतो लोक इतीत्येस्वरूपः, कोऽर्थः ? - अनन्तरोक्तद्रव्यषट्कात्मकः, उक्तं हि" धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥”
इति सूत्रार्थः । आह-किमेतेऽपि धर्मादयो भेदवन्त उतान्यथा ?, उभयथाऽपीति ब्रूमः, मू. ( १०८३ ) धम्मो अधम्मो आगासं, दव्वं इक्किक्कमाहियं । अनंतानि य दव्वाणि, कालो पुग्गलजंतवो ॥
वृ. धर्मोऽधर्म आकाशं द्रव्यमिति धर्मादिभिः प्रत्येकं योज्यते ‘एकैकं' एकसङ्ख्याया एवैतेषु भावाद् आख्यातं तीर्थकुद्भिरिति गम्यते, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह-'अनन्तानि' अनन्तसङ्ख्यानि स्वगतभेदानन्त्यात् 'च: ' पुनरर्थे उत्तरत्र योक्ष्यते, कानि ?, द्रव्याणि, कतमानि? -कालः पुद्गलजन्तवश्चोक्तरूपाः, कालस्य चानन्त्यमतीतानागतापेक्षयेति सूत्रार्थः ॥ एषां परस्परभेदनिबन्धनं लक्षणभेदमाह
मू. ( १०८४ )
मू. (१०८५ )
गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खाणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ नाणं च दंसणं चेव, चरितं च तवो तहा । वीरियं उवओगे य, एयं जीवस्स लक्खणं ॥ सद्दधयारउज्जोओ, पभा छाया तवुत्ति वा । वन्नरसगंधफासा, पुग्गलाणं तु लक्खणं ॥
मू. (१०८६ )
मू. ( १०८७ )
वृ. गमनं गति:- देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, 'तुः ' पूरणे, काऽसौ ? - धर्मास्तिकायः, आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तुं युक्तम्, अस्य तु सत्त्वमेवासिद्धम्, अत्रोच्यते, यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, न चायमसिद्धो हेतु:, धर्म इत्यस्यैतद्वाचकस्यासमस्तदत्वेन तथाऽभिधेयार्थबाधकप्रमाणाभावात् प्रमाणान्तरबाधितविषयत्वाख्यदोषरहित तत्वेन च सिद्धत्वात्, न च स्वपुष्पादिषु सङ्केतितैर्दुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसङ्केतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वात्, निपुणेन प्रतिपत्रा भाव्यम्, अन्यथा धूमादेरपि गोपालघटादिष्वन्यथाभावदर्शनादेष प्रसङ्गो दुर्निवारः स्यात्, उक्तं च
" अत्थित्ति निव्वियप्पो जीवो नियमा उ सद्दतो सिद्धी ।
कम्हा? सुद्धपयत्ता द्यडखरसिंगानुमाणाओ ।"
इत्याद्यलं प्रसङ्गेन, तथा 'अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः, तल्लक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्यं प्रत्यपेक्षाकारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं तच्चेदम्यद्यत्कार्यं तत्तदपेक्षाकारणवद्, यथा घटादि, कार्यं चासौ स्थितिः, यच्च तदपेक्षाकारणं तदधर्मा
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org