________________
अध्ययनं - २८, [ नि. ५०६ ]
मू. ( १०८१ )
गुणाणं आसओ दव्वं, एगदव्वस्सिया गुणा । पज्जवाणं तु, उभओ अस्सिया भवे ॥
वृ. 'गुणानां' वक्ष्यमाणानाम् 'आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदिति तथागतमतमपास्तं, तथाहियदुत्पादविनाशयोर्न वस्योत्पादविनाशौ न तत्ततोऽभिन्नं, यथा घटात्पटये, न भवतश्च पर्यायोत्पादविनाशयोर्द्रव्यस्योत्पादविनाशौ, न चायमसिद्धो हेतु:, स्थासकोशकुशूलाद्यवस्थासु मृदादि-द्रव्यस्यानुगामित्वेन दर्शनात्, न चास्य मिथ्यात्वं, कदाचिदन्यथादर्शनासिद्धेः, उक्तं हि"यो ह्यन्यरूपसंवेद्यः, संवेद्येतान्यथा पुनः समिथ्या न तु तेनैव, यो नित्यवगम्यते ॥ "
१३५
तथैकास्मिन् द्रव्ये स्वाधारभूते आश्रिताः स्थिता एकद्रव्याश्रिताः, के ते ? - 'गुणाः' रूपादयः एतेन च ये द्रव्यमेवेच्छन्ति तद्यतिरिक्तांश्च रूपादीनविद्योपदर्शितानाहुस्तन्मतनिषेधः कृतः, संविनिष्ठा हि विषयव्यवस्थितयो, न च रूपाद्युत्कलितरूपं कदाचित्केनचिद् द्रव्यमवगतमवगम्यते वा, अथ तद्विवर्त्त एव रूपादयो न तु तात्त्विकाः केचन तद्भेदेन सन्ति, नन्वेवं रूपादिविवर्त्तो द्रव्यमित्यपि किं न कल्प्यते ?, अथ तथैव प्रतीते:, एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभयात्मकमस्तु, लक्ष्यतेऽनेनेति लक्षणं 'पर्यवाणां' वक्ष्यमाणरूपाणां 'तुः' विशेषणे ‘उभयोः' द्वयोः प्राकृतत्वाद् द्रव्यगुणायोराश्रिताः, 'भवे 'त्ति 'भवेयुः' स्युः । अनेन च य एवमाहुः- यदाद्यन्तयोरसत् मध्येऽपि तत्तथैव, यथा मरीचिकादौ जलादि, न सन्ति च कुशूलकपालाद्यवस्थयोर्घटादिपर्यायाः, ततो द्रव्यमेवादिमध्यान्तेषु सत्, पर्यायाः पुनरसत्यैराकाशकेशादिभिः सदृशा अपि भ्रान्तैः सत्यतया लक्ष्यन्ते, यथोक्तम्
44
'आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥"
तेऽपाकृताः, तथाहि-आद्यन्तयोरसत्त्वेनमध्येऽप्यसत्त्वं साधयतामिदमाकूतं यत्क्वचिदसत्तत्सर्वस्मिन्निसदिति, ततश्च मुद्रव्येऽप्यद्रव्यस्यासत्त्वात्सर्वस्मिन्नप्यसत्त्वप्रसङ्गः, अथेष्टमेवैतत्, सत्तामात्रस्यैव तत्त्वत इष्टत्वात्, उक्तं हि - " सर्वमेकं सदविशेषात्" नन्वेवमभावे भावभावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद्बाधकप्रत्ययोदय एवासत्त्वे निबन्धनमिति न क्वचिदसत्त्व तस्यावश्यंभावः, ततो द्रव्यवत्पर्यायाणामप्यबाधितबोधविषयत्वे सत्त्वमस्तु, तथा गुणेष्वपि नवपुराणादिपर्याया: प्रत्यक्षप्रतीता एव कियत्कालभाविनः, प्रतिसमयभाविनस्तु पुराणत्वाद्यन्यथानुपपत्तेरनुमानतोऽवसीयन्ते, ततश्च द्रव्यगुणपर्यायात्मकमेकं शबलमणिवच्चित्रपतङ्गादिवद्वा वस्त्विति स्थितमिति सूत्रार्थ: ।। आह-गृह्णीमो 'गुणानामाश्रयो द्रव्य 'मिति द्रव्यलक्षणं, तच्चैवंलक्षणं द्रव्यं किमेकमेवोत तस्य भेदो अपि सन्तीत्याह
मू. (१०८२ )
धम्मो अधम्मो आगासं, कालो पुग्गलजंतवो ।
एस लोगुत्ति पन्त्रत्तो, जिनेहिं वरदंसिहिं ॥
Jain Education International
वृ.‘धर्म' इति धर्मास्तिकाय: 'अधर्म' इत्यधर्मास्तिकाय: 'आकाश' मित्याकाशस्तिकायः ‘कालः' अद्धासमयात्मक: 'पुद्गलजन्तव' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि
For Private & Personal Use Only
www.jainelibrary.org