________________
१३४
उत्तराध्ययन-मूलसूत्रम्-२-२८/१०७९ वृ. 'तत्र' इति तेषु ज्ञानादिषु मध्ये 'पञ्चविधं' पञ्चप्रकारं, किं तत् -ज्ञान, क एते पञ्च प्रकारा इत्याह-श्रूयते तदिति श्रुतं-शब्दमात्रं, तच्च द्रव्यश्रुतमेव, यत्पुनः शब्दमाकर्णयतः स्वयं वा वदतः पुस्तकादिन्यस्तानि वा चक्षुरादिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽर्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुतशब्देनोक्तं;
तथाऽभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः स्वस्वविषयपरिच्छेदकतयाऽवबोधःअवगमोऽभिनिबोधः स एवाभिनिबोधिकं, विनयादित्वात्स्वार्थिकष्ठक्, 'ओहि'त्ति अवशब्दोऽध:शब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधो विस्तृतविषयवेदकतयेत्यवधिः, औणादिको डि:, यद्वा 'अवे'त्यध एव धानं धातूनामनेकार्थत्वात्परिच्छेदोऽवपिः, 'उपसर्गे धोः कि'रिति किः, अथवाऽवधिः-मर्यादा रूपिष्येषु परिच्छेदकतया प्रवृत्तित्त्येवंरूपा, तदुपलक्षितं ज्ञानमप्यविधः, ज्ञायतेऽनेनेति ज्ञातिर्वा ज्ञानं, ततोऽवधिश्चासौ ज्ञानं चावधिज्ञानं, __ तृतीयं तृतीयस्थानवतित्वात्, 'मननाणं'ति मनःशब्देन द्रव्यपर्याययोः कथञ्चिद भेदात् मनोद्रव्यपर्याया गृह्यन्ते, तेषु तत्तत्सञ्जिविकल्पहेतुषु ज्ञानं मनोज्ञानं, __ तानेव हि मनःपर्यायज्ञानी साक्षादेव बुध्यते, न तु बाह्यान्, अनुमानगम्यमानत्वात्तेषाम्, उक्तं हि-"जाणति बज्झेऽनुमानोओ'त्ति, 'च:' समुच्चये भिन्नक्रमस्ततः केवलं च, तत्र केवलम्-एकमकलुषं सकलमसाधारणमनन्तं च ज्ञानमिति प्रक्रमः, उक्तं हि-"केवलमेगं सुद्धं सकलमसाधारणं अनंतं च।".. __ आह-नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानम् ?, उच्यते, शेषज्ञानानामपि स्वरूपज्ञानस्य प्रायस्तदधीत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः ।। साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाहमू.(१०८०) एयं पंचविहं नाणं, दव्वाण य गुणाण य।
पज्जवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ।। वृ. 'एतद्' अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति-गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणिवक्ष्यमाणलक्षणानि तेषां, 'चः' तद्गतानेकभेदख्यापको, गुणानां-रूपादीनां, चः प्राग्वत्, परीति-सर्वतः, कोऽर्थः?-द्रव्येषु गुणेषु सर्वेष्ववन्ति-गच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकात्स्नर्ये सर्वशब्दः शेषज्ञानापेक्षया तु प्रकारकात्स्नर्ये, प्रतिनियतपर्यायग्राहित्वात्तेषां, 'ज्ञानम्' अवबोष्कं 'ज्ञानिभिः' अतिशयज्ञानोपेतैः केवलिभिरितियावत् 'देशितं' कथितम्।
अनेन च यदाहुः-ज्ञानं ज्ञानस्वरूपस्यैव ग्राहकं, बाह्याभिमतस्य वस्तुनो ज्ञानातिरिक्तस्यासत्त्वाद्, अत एवोक्तं-'स्वरूपस्य स्वतो गति' रिति, तन्निरस्तम्, अन्तः सुखादिप्रतिभासवदहिःस्थूलप्रतिभासस्यापिस्वसंविदितत्वात्, न च युगपद्वद्यमानयोरेकस्य तात्त्विकत्वमितरस्य त्वन्यथात्वमिति निमित्तं विना कल्पयित्तुं शक्यम्, अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तं, न, यतस्तदितरत्रापिकिन कप्यते?, निमित्तं विना कल्पनाया उभयत्राविशेषात्, तथा च ज्ञानस्याप्यभावेन सर्वशून्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्रार्थः ।।
अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किंलक्षणानीत्यत आह- .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org