________________
-
अध्ययनं-२८,[ नि. ५०६]
१३३ तदनन्तरभावित्वात्स एवे(व ने)ति कथं चतुष्कारणवतीत्वमस्या न विरुध्यते?, उच्यते, व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानाददोषः, अत एव चानन्तरकारणस्यैव कारणत्वमित्याशङ्काऽपोहार्थ मस्य विशेषणास्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गति प्रति मार्गस्य कारणत्वं प्रतीयत एव,
तद्रपाणि चामनि, चत्वारिकारणानीति, तथा ज्ञानदर्शने लक्षणं-चिह्नं यस्याः सा ज्ञानदर्शनलक्षणाः, यस्य हि तत्सत्ता तस्यावश्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोर्मूलकारणतां दर्शयितुमित्थमुपन्यासः, यद्वा मोक्षे-उक्तलक्षणे मार्गः-शुद्धो 'मृजूशुद्धा'विति धातुपाठात्तस्य गतिः-प्राप्तिस्तां ज्ञानदर्शने-विशेषसामान्योपयोगरूपे लक्षणम्-असाधारणं स्वरूपं यस्याः सा तथा तां, न चेह नियुक्तिकृता मार्गगत्योरन्यथाव्याख्यानात्तद्विरोधः, अनन्तगमपर्यायत्वात्सूत्रस्य, शिष्यासंमोहाय कस्यचिदेवार्थस्य तेनाभिधानात्, शेषं प्राग्वदिति सूत्रार्थः॥
यदुक्तं 'मोक्षमार्गगतिं शृणेति'त्ति तत्र मोक्षमार्ग तावदाहमू. (१०७७) नाणं च दंसणं चेव, चरितं च तवो तहा।
एस मग्गुत्ति पन्नत्तो, जिनेहिं वरदंसिहिं॥ वृ.ज्ञायते-अवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानं, तच्च सम्यग्ज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यग्रूपमेव, दर्शनमोहनीयक्षयोपशमोपशमसमुत्पादितमर्हदमिहितजीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम्, 'एव' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्ति-गच्छन्त्यनेन मुक्तिमिति चरित्रम्, एतदपि सम्यग्रूपमेव चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं, तपति पुरोपात्तकर्माणि क्षपणेनेति तपो-बाह्याभ्यन्तरभेदभिन्नं यदर्हद्धचनानुसारि तदेव समीचीनमुपादीयते, इत्थं चैतत् ।
सर्वत्र मोक्षमार्गगतिप्रस्तावाद्विपर्यस्तज्ञानादीनां तत्कारणताऽनुपपत्तेरन्यथाऽतिप्रसङ्गात्तथेति, सर्वत्र चशब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुक्तिमार्गत्वख्यापकम्, एष एव 'मार्ग' इति मार्गशब्दवाच्यः, अत्यैव मुक्तिप्रापकत्वात्, 'प्रज्ञप्तः' प्रज्ञापितः 'जिनैः' तीर्थकृद्भिः वरं-समस्तवस्तुव्यापितयाऽव्यभिचारितया च द्रष्टुं-प्रेक्षितुं शीलमेषां ते वरदर्शिनस्तैः, इह च चारित्रभेदत्वेऽपि तपसः पृथगुपादानमस्यैव क्षपणं प्रत्यसाधारणहेतुत्वमुपदर्शयितुं, तथा च वक्ष्यति-"तवसा (उ) विसुज्झइ"त्ति सूत्रार्थः ।। मू. (१०७८) नाणं स दंसणं चेव, चरित्तं च तवो तहा।
एयं मग्गमणुप्पत्ता, जीवा गच्छंति सुग्गइं। वृ. पूर्वार्द्ध व्याख्यातमेव, एनम्' इत्यनन्तरमुक्तरूपं 'मार्ग' पन्थानम् ‘अनुप्राप्ताः' आश्रिता जीवाः 'गच्छन्ति' यान्ति 'सोग्गइ'न्ति सुगति-शोभनगति, प्रक्रमान्मुक्तिमिति सूत्रार्थः ।। ज्ञानादीनि मुक्तिमार्ग इत्युक्तमतस्तत्स्वरूपमिहाभिधेयं, तच्च तद्भेदाभिधानेऽभिहितमेव भवतीतिमत्वा यथोद्देशस्तथा निर्देश' इति न्यायतो ज्ञानभेदानाहमू. (१०७९) तत्थ पंचविहं नाणं, सुअंआभिनिबोहियं ।
ओहियनाणं तइयं, मननाणं च केवलं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org