________________
उत्तराध्ययन- मूलसूत्रम् - २ - २८ / १०७६ भावंमि नाणदंसणतवचरणगुणा मुनेयव्वा ॥ निक्खेवो उगईए चउव्विहो दुव्वि० ॥ जाणगसरीरभविए तव्वरित्ते अ पुग्गलाईसुं । भावे पंचविहा खलु मुक्खगईए अहीगारो ||
वृ. निक्खेवोत्यादि गाथाः षट् प्रतीतार्थ एव, नवरं 'तव्वइरित्ते य नियलमाईसु' त्ति तद्व्यतिरिक्तश्च निगडादिभ्यः, आदिशब्दात्कारागृहादिपरिग्रहः, सूत्रत्वाच्च पञ्चम्यर्थे सप्तमी, इह च निगडादीनां द्रव्यत्वात्तन्मोक्षोऽपि द्रव्यमोक्ष उक्तः, अष्टविधकर्मणा-ज्ञानावरणाददिनिा मुक्त:त्यक्त आत्मेति ज्ञातव्यो भावतो मोक्षः, कथञ्चिद्रव्यपर्याययोरनन्यत्वख्यापनार्थमित्थमुक्तम्, अन्यथा हि क्षायिकभाव एवात्मनो मुक्तत्वलक्षणो मोक्ष इत्युच्यते, आह-कर्मणोऽपि द्रव्यात्वात्कर्मक्षयलक्षणत्वाच्चास्य कथं न द्रव्यमोक्षता ?, उच्यते, इह द्रव्यविवक्षितत्वात्क्षायिकभावरूपस्यैव चास्याश्रितत्वान्न दोषः, अथवा भावशब्दोऽत्र परमार्थवचन:, तथा च वक्तारो भवन्ति-अयमत्र भाव:-अयमत परमार्थ इत्यर्थः, ततश्चास्यैवैकान्तिकात्यन्तिकत्वेन तात्त्विकत्वाद्भावमोक्षत्वम्, इतरस्य तु तद्विपरीत्वाद् द्रव्यमोक्षत्वमित्यनवकाश एव प्रेरणायाः, 'तव्वइरित्ते य जलथलाईसु' न्ति जलस्थले प्रतीते आदिशब्दादुभयपरिग्रहस्तेषु प्रक्रमाद्यो मार्गाः स तद्व्यतिरिक्तो द्रव्ये मुनितव्य इति संटङ्कः, भावो ज्ञानदर्शनतपश्चरणगुणा जीवपर्यायत्वान्मुक्तिपदावप्तिनिमित्ततया च मुनितव्यो मार्ग इति प्रक्रमः । 'तव्वइरित्ते य पोग्गलाईसु'न्ति सूत्रत्वात्तद्व्यतिरिक्ता च प्रक्रमाद्रव्यगतिः पुद्गलादिषु, आदिशब्दाज्जीवपरिग्रहः, व्यक्तिभेदविवक्षया च बहुवचननिर्देशः, द्रव्यत्वं चास्या द्रव्यप्राधान्यविवक्षया, अन्यथा हि पुद्गलादिपर्यायत्वाद्भतेर्भावरूपतैव, यदिवा द्रव्यस्य गतिः द्रव्यगतिरिति षष्ठीसमासाश्रयणान्न दोषः, भावे ‘पञ्चविधा' पञ्चप्रकारा प्रस्तावाद्गतिर्नारकतिर्यङ्गरामरमुक्त्याख्यगम्यभेदेन, मोक्षगत्यासिद्धिगत्या त्वधिकारः, तस्या एवेहाभिधेयत्वादिति गाथाषट्कार्थः ॥
सम्प्रति यथाऽस्य मोक्षमार्गगतिरिति नाम तथा दर्शयितुमाह
नि. [५०६ ] मुक्खो मग्गो अ गई वन्निज्जइ जम्ह इत्थ अज्झयणे । तं अं अज्झयणं नायव्वं मुक्खमग्गगई ॥
१३२
नि. [५०४ ] नि. [५०५ ]
-
वृ. मोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया चशब्दो भिन्नक्रमः ततः 'गतिश्च' सिद्धिगमनरूपा तदुभयफलतया 'वर्ण्यते' प्ररूप्यते यस्माद् 'अत्रे' ति प्रस्तुतेऽध्ययने 'तत्' तस्मादेतदध्ययनं ज्ञातव्यं ‘मोक्षमार्गगति:' इति मोक्षमार्गगतिनामकम्, अभिधेयेऽभिधानोपचारादिति भाव इति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्मू. ( १०७६ ) मुक्खमग्गगई तच्चं (त्थं), सुणेह जिनभासियं ।
चडकारणसंजुत्तं, नाणदंसणलक्खणं ॥
वृ. मोक्षणं मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्गः-उक्तरूपस्तेन गतिः - अनन्तरोक्ता मोक्षमार्गगतिस्तां, कथ्यमानामिति गम्यते, 'तच्चं 'ति 'तथ्याम्' अवितथां ' शृणुत' आकर्णयत ‘जिनभाषितां' तीर्थकृदभिहितां, चत्वारि कारणानि वक्ष्यममाणलक्षणानि तैः संयुक्ता - समन्विता चतुष्कारणसंयुक्तातां, नन्वमूनि चत्वारि कारणानि, कर्मक्षयलक्षणस्य मोक्षस्यैव, मतेस्तु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org