________________
१३८
उत्तराध्ययन-मूलसूत्रम्-२-२८/१०८७ दिप्रत्यया इत्यनुमानमिति चेद्यद्येवमिदह्यापि यो य इह प्रत्ययः स सर्वः सालम्बनो यथेह कुण्डे दधीति प्रत्ययः इहप्रत्ययश्चायम् इह विहग इति प्रत्ययः इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धिर्नत्वाकाशस्य, कथं न तत्सिद्धिः?, यदेव ह्याधारमात्रं तदेवाकाशमिति वयं ब्रूमः, अथ बाधकाभावात्, ननु बाधकमपि विपरीतप्रत्ययोत्पत्तिरूपं, तदभावश्चोभयत्र समान इति न भित्त्याद्यभाव एवाकाशं किन्तु शुपिररूपमन्यदेव, ततस्तद्भावित्वादवगाहस्य कथं न तत्कारणत्वसिद्धिराकाशस्य ?, एवं च स्थितमेतद्-अवगाहेन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नभः, तथा वर्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्तना सा लक्षणं-लिङ्गमस्येति वर्तनालक्षणः, कोऽसौ ?-कालः इदमुक्तं भवति-यदमी शीतवातातपादयः ऋतुविभागेन भवन्ति यच्च केचिच्छशधरकरनिकरानुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाशकलविशदकुन्दमालतीकुसुमवासवाहिन: अपरेच केशरतिलकुरुबकशिरीषाङ्कोल्लप्रसूनजृम्भमाणपरागभाजः तदितरे च करिदशनसकलधवलमल्लिकाबहलपरिमलहारिणः परेच कदम्बकेतकरजःपूरपूरिताम्बरा: अपरेतु सप्तच्छदकुसुमरजोधूलिधूसरितविश्वविश्वम्भराः अविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवनभागांस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं,
सच काल इत्यलं प्रस्ङ्गेन, सर्वथा वर्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं, तथा 'जीव:' जन्तुरुपयोगो-मतिज्ञानादि लक्षणं-रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको घुपयोगस्तद्धर्मः, सच स्वसंविदित एवेति, तदनुभवतो रूपाद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तल्लक्षणमुच्यते, प्रपञ्चितं चैतदिहैव प्रागन्यत्र चेति न पुनः प्रतन्यते अत एव 'ज्ञानेन' विशेषग्राहिणा 'दर्शनेन च' सामान्यविषयेण 'सुखेन च' आह्लादरूपेण दुःखेन च-तद्विपरीतेन प्रक्रमाल्लक्ष्यत इति गम्यते, न हि ज्ञानादीन्युजीवेषु कदाचिदुपलभ्यन्त इतिकृत्वा।।
सम्प्रति विनेयानां दृढतरसंस्काराधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह-'ज्ञानं च' उक्तरूपमेवं दर्शनं चैव चरित्रं च तपस्तथा 'वीर्य' वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्यलक्षणम् 'उपयोगश्च' अवहितत्वं, किमित्याह-'एतत्' ज्ञानादि जीवस्य लक्षणम्, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यत इति । इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षणमाह__ 'शब्दः' ध्वनिः 'अन्धकारः' तिमिरम्, उभयत्र सूत्रत्वात्सुपो लुक् 'उद्योतः' रत्नादिप्रकाशः 'प्रभा' चन्द्रादिदीधितिः 'छाया' शैत्यगुणाः 'आतपः' रविबिम्बजनित उष्णप्रकाशः, इतिशब्द आद्यर्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये, वर्णश्च-नीलादिः रसश्च-तिक्तादिः गन्धश्च-सुरभ्यादिः, स्पर्शश्च-शीतादिरेषां द्वन्द्वः, इतिशब्देन चाद्यार्थेनैषां ग्रहणेऽपि पुनरुपादानं सर्वत्रानुयायिताख्यापनार्थं, 'पुद्गलानां' स्कन्धादीनां 'तुः' पुनरर्थः लक्षणम्, एतैरेव तेषां लक्ष्यत्वात्, आह-पौद्गलिकत्वे शब्दादीनां पुद्गललक्षणत्वं युक्तं तच्च कथम्?, उच्यते, शब्दस्तावन्मूर्तत्वात्पौद्गलिको, मूर्तिभावोऽस्य प्रतिघातविधायित्वादिभ्यः, उक्तं हि
___ "प्रतिघातविधायित्वाल्लोष्टवन्मूर्तता ध्वनेः।
द्वारवातानुपाताच्च, धूमवच्च परिस्फुटम्।।" अन्धकारोद्योतप्रभाणां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वात्, प्रयोगश्चात्र-यत्पौद्गलिकं न भवति तच्चक्षुर्विज्ञानविषयमपि न भवति, यथाऽऽत्मादयः, चक्षुर्विज्ञानविषयाश्चान्धकारादयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org