________________
१२९
-
-
-
अध्ययनं-२७,[नि. ४९९] मू.(१०६७) इड्डीयारविए एगे, एगित्थ रसगारवे।
सायागारविए एगे, एगे सुचिरकोहणे॥ मू.(१०६८) भिक्खालसिए एगे, एगे ओमाणभीरुए थद्धे।
एगं च अनुसासमी, हेऊहिं कारणेहि य॥ म.(१०६९) सोऽवि अंतरभासिल्लो, दोसमेव पकव्वई।
आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं॥ मू.(१०७०) न सा मम वियाणाइ, नवि सा मज्झ दाहिई।
निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वच्चउ।। मू.(१०७१) पेसिया पलिउंचंति, ते परियति समंतओ।
रायविट्टि व मन्नता, करिति भिउडिं महे ।। मू.(१०७२) वाइया संगहिया चेव, भत्तपानेहिं पोसिया।
जायपक्खा जहा हंसा, पक्कमति दिसोदिसिं॥ वृ. 'इड्डीगारविए'त्ति ऋद्धा गौरवं- श्राद्धा ऋद्धिमन्तो मम वश्याः संपद्यते च यथाचिन्तितमुपकरणमित्याद्यात्मबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्तते किमेतैर्ममेति एक:- कश्चन, 'एक:' अन्योऽत्रेति-दुःशिष्याधिकारे 'रसगारवे'त्ति रसेषु-मधुरादिष गौरव-गार्थ्यं यस्यासौ रसगौरवो वालग्लानादिसमुचिताहारदानतपोऽनुष्ठानादौ न प्रवर्तते, 'सायागारविए'त्ति साते-सुखे गौरवं-प्रतिबन्धः सातगौरवं तदस्यास्तीति सातगौरिक एकः, सुखप्रतिबद्धो हि नाप्रतिबद्धविहारादौ प्रवर्तितुं क्षमः, एक: 'सुचिरक्रोधनः' प्रभूतकालकोपनशीलः, एकदा कुपितः कुपित एवास्ते, न कृत्येषु प्रवर्त्तते।
भिक्षायामालस्यक:-आलस्यवान् भिक्षाऽऽलस्यिक एको न विहर्तुमिच्छति, एकोऽपमानभीरु:-भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्यनि प्रवेष्टुमिच्छति, यदिवा 'ओमाणं'ति प्रवेश: सच स्वपक्षपरपक्षयोस्तद्भीरु[हिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेक्ष्यन्तीति, थद्धो'त्ति स्तब्धोऽहङ्कारवान्, न निजकुग्रहान्नमयितुं शक्य इति प्रक्रमः, एकं च दुःशिष्यम् 'अनुसासंमि'त्ति आर्षत्वादनुशास्ति गुरुरिति गम्यते, यदा त्वाचार्य आत्मनः समाधि प्रतिसंधत्ते इति व्याख्या तदाऽनुशास्पीति व्याख्येयं, हेतुभिः कारणैश्चोक्तरूपैः । __ सचानुशिष्यमाणः किं कुरुते? इत्याह-सोऽपि दुःशिष्यः 'अंतरभासिल्ल'त्ति अन्तरभाषावान्, गुरुवचनापान्तराल एव स्वाभिभतभाषक इत्यर्थः, 'दोषमेव' अपराधमेव 'प्रादुष्वक(प्रक)रोति' प्रकर्षेण विधत्ते, न तु शिष्यमानोऽपि तद्विच्छेदमिति भावः, पाठान्तरश्च दोषमेव प्रभाषते, गुरूणामिति गम्यते, न चैतावता तिष्ठति, किन्त्वाचार्याणामुपलक्षणत्वादुपाध्यायादीनां द्वितीयपक्षे त्वाचार्याणां सतामास्माकमिति गम्यते, तदित्यनुशिष्टयभिधायकं वचनं वचः 'प्रतिकूलयति' विपरीतं करोति युक्त्युपन्यासेन विपरीतचेष्टया वा 'अमीक्ष्णं' पुनः पुनः, न त्वेकदैवेत्यभिप्रायः।
यथा प्रतिकूलयति तथाऽऽह-न सा 'ममं'ति मां विजानाति, किमुक्तं भवति?-गुरुभिः 29/9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org