________________
१३०
उत्तराध्ययन- मूलसूत्रम् - २ -२७ / १०७२ कदाचित्प्रज्ञापितो यथा-आयुष्मन् ! ग्लानप्रतिजागरणं महन्निर्जरास्थानमित्यमुकस्या अपि श्राविकायाः सकाशादमुकमौषधमाहारजातं वाऽऽनीयतां, ततः स तया ज्ञायमानोऽपि प्रतिकूलतया प्राह-न सा श्राविका मा प्रत्यभिजानाति, अप्रत्यभिज्ञानाच्च न वेत्ति, नैव सा मह्यं दास्यति विवक्षितमौषधादीति गम्यते इति हेतुहेतुमद्भावेन व्याख्येयं, स्वतन्त्रतया वा न सा मां विजानाति, नापि सा मह्यं दास्यतीत्याह, यदिवा निर्गता गृहादिदानीं सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुः ‘अन्यः' मद्यतिरिक्त: 'अत्र' विवक्षितप्रयोजने व्रजतु, किमहमेवैकः साधुरस्मीत्यभिधत्ते ।
अन्यच्च 'प्रेषिताः' क्वचित्तथाविधप्रयोजने प्रस्थापिताः 'पलिउंचंति'त्ति तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपह्नुवते - क्व वयमुक्ताः ?, गता वा तत्र वयं, न त्वसौ दृष्टेति, पठ्यते च-'पोसिया पलिउंचंति' पोषिताः- आहारोपकरणादिना श्रुतादिना च पुष्टिं नीता अपह्नुवतेयथा किमस्माकं गुरुभिः कृतमित्यपलपन्ति 'ते' दुः शिष्याः 'परियंति' पर्यटन्ति 'समन्ततः ' सर्वासु दिक्षु, न गुरुसन्निधौ कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्संनिधाने वा कर्त्तुं प्रवृत्तौ ‘राजवेष्टिमिव' नृपतिहठप्रवत्तितकृत्यमिव 'मन्यमानाः' मनस्वयधारयन्तः कुर्वन्ति 'भ्रकृटीम्' आवेशवशकृतभ्रर्पेक्षपरूपां 'मुखे' वक्रे, अत्यन्तदुष्टताख्यापकमेतत् तदन्यवपुर्विकारोपलक्षणं च ।
अपरञ्च- 'वाचिता:' शास्त्राणि पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः, किमाचार्यान्तरसत्का एवसन्त उतान्यथेत्याह-'संगृहीताः' परिगृहीताश्चशब्दाद् दीक्षिता उपस्थिताश्च स्वयमिति गम्यते, एवेति पूरणे, 'भक्तपानेन' च सुस्निग्धमधुरादिना, सूत्रे च सुब्व्यत्ययात्तृतीयार्थे सप्तमी, 'पोषिताः' उपचितीकृताः, तथाऽपि 'जातपक्षाः ' उत्पन्नपतत्रा यथा हंसा: प्रकर्षेण - अतिविप्रकृष्टदेशान्तरगमनलक्षणेन क्रामन्ति-गच्छन्ति प्रक्रामन्ति 'दिसोदिसिं 'त्ति दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः ।
पूर्वत्रैकस्थानस्थितानामेव पर्यटनमुक्तम्, इह तु देशान्तरगमन इति न पौनरुक्त्यं, प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रषट्कार्थः । इत्थं खलुङ्गस्येव समिलाभङ्गादिना दुः शिष्यस्य धृतिदुर्बलत्वादिना दुष्टत्वम्, अत एव स्वस्वामिक्लमासमाधिजनकत्वं चोक्तम्, इदानीं तैरेव प्रापितक्लमासमाधिर्यदसावचेष्टत तदाह
मू. ( १०७३ )
अह सारही विचितेइ, खलुंके हि समागए । किं मज्झ दुट्टसीसेहिं ?, अप्पा मे अवसीअई ॥ जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ॥
मू. ( १०७४ )
वृ. 'अथे'ति क्लमासमाधिसम्भवानन्तरं सारथिरिव सारथिः स्खलितप्रवर्त्तकतयाऽऽचार्यादिः 'विचिन्तयति' ध्यायति, आचार्यसमाधिप्रतिसन्धानपक्षे तु 'अथे' त्यन्तरकोक्तचिन्तानन्तरं ‘सारथि:' स एव गर्गाचार्यः खलुङ्खैरिव खलुङ्खैः- दुः शिष्यैः, हेतौ तृतीया, श्रमं खेदमागत:-प्राप्तः श्रमागतः, ते हि दुष्टगवगवदनेकधा प्रेर्यमाणा अपि सन्मार्गगच्छन्तो गुरु श्रमहेतव एव भवन्ति, यदिवा समागतः खलुङ्खैरिति च सहार्थे तृतीया, यद्विचिन्तयति तदाह- किं ?, न
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org