________________
१२८
उत्तराध्ययन- मूलसूत्रम् - २-२७ / १०६५ वाहयमानस्य - कृत्येषु प्रवर्त्तयतः संसारोऽतिवर्त्तते, तद्विनीततादर्शनादात्मनो विशेषतः समाधिसम्भवादितिभाव इति सोपस्कारतया व्याख्याते, इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाविनीतस्वरूपं यथा परिभावयति तथाऽऽह खलुंकेत्यादिसूत्रद्वादशककम् ।
स
खलुङ्कान् योऽनिर्दिष्टस्वरूपः 'तुः ' विशेषणे योजयति-योत्क्रयति वहन इति प्रक्रमः, किमित्याह-‘विहंमानो’त्ति सूत्रत्वाद् विशेषेण 'घ्नन्' ताडयन् 'क्लाम्यति' श्रमं याति पाठान्तरत: क्लिश्यति, अत एव 'असमाधि' चित्तोद्वेगरूपं 'वेदयते' अनुभवति 'तोत्रकः ' प्राजनक:, सच 'से' इति तस्य खलुङ्कयोजयितुः 'भज्यते' अतिताडनाद्भङ्गं याति ।
ततश्चातिरुष्टः सन् यत् कुरुते तदाह-एकं 'दशति' दशनैर्भक्षयति 'पुच्छे' वालधौ, 'एकम्' अन्यं गलिं 'विध्यति' प्राजनकारया तुदति, उपलक्षणं चैतदश्लील भाषणादीनाम्, 'अभीक्ष्णं' पुन: पुन:, अथ किमेते कुर्वन्ति ? येन योजयितुरेवं निर्वेदहेतव इत्याह-'एकः ' कश्चित् खलुङ्को गौ: 'भनक्ति' आमर्दयति, कां ? - 'समिलां' युगरन्ध्रकीलिकाम्, 'एकः' अन्यस्तामभंक्त्याऽपि उत्पथम् - उन्मार्गं प्रस्थित उत्पथस्थितो भवतीति गम्यते ।
तथा ‘एकः' अपरः पतति 'पार्श्वेन' एकगात्रविभागेन, गम्यमानत्वाद् भूमौ, अन्यस्तु 'निवेसइ'त्ति निवशति-उपविशति, अपरश्च 'निविज्जए 'त्ति शेते, परः 'उत्कूर्दते' ऊर्ध्वं गच्छति 'उप्फिडइ' त्ति मण्डूकवत्प्लवते, अन्यः 'शठः ' शाठ्यवान्, अन्यः कश्चिद् 'बालगवी वए 'त्ति 'बालगवीम्' अवृद्धां गां 'व्रजेत्' तदभिमुखं धावेदित्यर्थः, यदिवाऽऽर्षत्वाद्वालगवीति व्यालगवो-दुष्टबलीवर्दः ‘व्रजेत' गच्छेद् अन्यत इति शेषः ।
अन्यश्च ‘मायी' मायावान् 'मूर्ध्ना' मस्तकेन पतति कोऽर्थः ? - अतिनिस्सहमिवात्मानमादर्शयन् भुवि शिरसा लुठति, अपरः 'क्रुद्धः' कुपितः सन् 'गच्छति प्रतिपथं' पश्चाद्वलति, अपर: ‘मृतलक्ष्येण' मृतव्याजेन 'तिष्ठति' आस्ते, पठ्यते च - 'पलयं (यलं) ते न चिट्ठिय'त्ति प्रव(च) लन् प्रकर्षेण कम्पमानस्तिष्ठति, कम्पान्न निवर्त्तत इत्यर्थः, कथञ्चित्प्रवणीकृत: 'वेगेन चप्रधावति' यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीति योऽर्थः । 'छिन्नाल:' तथाविधदुष्टजाति: कश्चित् 'छिनत्ति' खण्डयति 'सि (स्वि) ल्लि' ति रश्मि संयमनरज्जुमितयवात्, अपरस्तु दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भंक्त्वा 'सुस्सुयाइत्त' त्ति सूत्करान् कृत्वा, तथा 'उज्जुहित्त'त्ति प्रेर्य स्वामिनं शकटं चेति गम्यते 'पलायते' अन्यतो धावतीति सूत्रपञ्चकार्थः ॥
1
इत्थं दृष्टान्तमभिधाय दान्तिकयोजनामाहमू. ( १०६६ )
खलुंका जारिसा जुज्जा, दुस्सीसाविहु तारिसा । जोइया धम्मजाणंमि, भज्जता धिइदुब्बला ॥
वृ.' खलुङ्काः ' इहोक्तरूपा गावो यादृशाः 'योज्याः' घट्टनीयाः, दुशिष्या अपि 'हु: ' ' अवधारणे भिन्नक्रमश्च, ततस्तादृशादर्शयन्त्येवमेतेऽपि, किमिति ? - यतो 'योजिताः ' व्यापारिता धर्मो यानमिव मुक्तिपुरप्रापकतया धर्मयानं तस्मिन् 'भज्यन्ते' न सम्यक् प्रवर्त्तन्ते 'धिइदुब्बल'त्ति प्राकृतत्वाद् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यत इति सूत्रार्थः ॥ धृतिदुर्बलत्वमेव तेषां भावयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org