________________
१२४
उत्तराध्ययन- मूलसूत्रम् - २ - २६ / १०५७
पक्किमित्तु कालस्स, कालं तु पडिलेहए ||३||
अत्रापि व्याख्या, तथैव, पाठद्वयेऽपि चतुर्थप्रहरविशेषकृत्याभिधानप्रसङ्गेन पुनः प्रहरत्रयकृत्याभिधानमिति मन्तव्यम् । 'आगते' प्राप्ते 'कायव्युत्सर्गे' इत्युपचारात् कायव्युत्सर्गसमये सर्वदुःखानां विमोक्षणमर्थात् कायोत्सर्गद्वारेण यस्मिन् स तथा तस्मिन् शेषं प्राग्वत्, यच्चेह सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थं, तथेह कायोत्सर्गग्रहणेन चारित्रदर्शन श्रुतज्ञानविशुद्धर्थं कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतीचारश्चिन्त्यते, यत उक्तम्
"तत्थ पढमो चरित्ते, दंसणसुद्धीय बीयओ होइ । सुयनाणस्स यततितो नवरं चिंतेइ तत्थ इमं ॥
,
तइए निसाइयारं" ति रात्रिकोऽतिचारश्च यथा यद्विषयश्च चिन्तनीयस्तथाऽऽह - रात्रौ भवं रात्रिकं 'चः' पूरणे अतीचारं चिन्तयेत् 'अनुपुव्वसो'त्ति आनुपूर्व्वा क्रमेण ज्ञाने दर्शने चारित्रे तपसि तशब्दाद्वीर्ये च, शेषकायोत्सर्गेषु चतुर्विंशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्तः । ततश्च पारितेत्यादिसूत्रद्वयं व्याख्यातमेव, कायोत्सर्गस्थितश्च किं कुर्यादित्याह - 'कि 'मिति किंरूपं 'तपो' नमस्कारसहितादि प्रतिपद्येऽहम्, एवं तत्र विचिन्तयेत् - वर्द्धमानो हि भगवान् षण्मासं यावन्निरशनो विहृतवान्, तत्किमहमपि निरशनः शक्नोम्येतावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत्, उक्तं हि
"चिंते चरमे उकिं तवं काहं ? |
छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा ॥"
उत्तरार्द्ध स्पष्टम्, एवदुक्तार्थनुवादतः सामाचारीशेषमाह - 'पारिए' त्यादि प्राग्वत्, नवरं 'तपः ' यथाशक्ति चिन्तितमुपवासादि 'संप्रतिपद्य' अङ्गीकृत्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपं, ' तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथा चाह भाष्यकार:
"वंदित्तु निवेयंति कालं तो चेइयाइ यदि अत्थि ।
-
तो वंदती कालं ह य तुलेउं पडिक्कमणं ॥"
इति सार्द्धत्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नाह
मू. (१०५८ )
एसा सामाचारी, समासेण वियाहिया ।
जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ।। त्तिबेमि ॥ वृ. 'एषा' अनन्तरोक्ता सामाचारी दशविधा, ओघरूपा (च) पदविभागात्मिका चेह नोक्ता, धर्मकथाऽनुयोगत्वादस्य, छेदसूत्रान्तर्गतत्वाच्च तस्याः, 'समासेन' सङ्क्षेपेण 'वियाहिय'त्ति व्याख्याता, अत्रैत्रादरख्यापनार्थमस्याः फलमाह-'यां' सामाचारीं 'चरित्वा' आसेव्य 'बहवः' अनेके जीवास्तीर्णाः संसारसागरं प्राग्वदिति सूत्रार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमिति पूर्ववत् । | उक्तो ऽ ऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव || अध्ययनं २६ समाप्तम्
मुनि दीपरत्नसगारेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे षड्विंशतितमध्ययनस्य भद्रबाहुस्वामिविरचिता निर्युक्तिः एवं शान्त्याचार्य विरचिता सटीकं परिसमाप्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org