________________
अध्ययनं - २६, [ नि. ४९० ]
१२३
पारित:-समापितः कायोत्सर्गे येन स तथा वन्दित्वा प्रस्तावाद् द्वादशावर्त्तवन्दनेन 'तत' इत्यतीचारचिन्तनादनन्तरं 'गुरुम्' आचार्यादि 'देसियं 'त्ति प्राग्वद् दैवसिकं 'तुः ' पूरणेऽतीचारम् 'आलोचयेत्' प्रकाशयेद् गुरूणामेव 'यथाक्रमम्' आलोचनसेवनान्यतरानुलोम्यक्रमानतिक्रमेण‘प्रतिक्रम्य' प्रतीपमपराधस्थानेभ्यो निवृत्य, प्रतिक्रमणं च मनसा भावशुद्धितो वाचा तत्सूत्रपाठतः कायेनोत्तमाङ्गनमनादितः, 'निःशल्य: ' मायादिशल्यरहितः, , सूचकत्वात्सूत्रस्य वन्दनकपूर्वं क्षमयित्वा च वन्दित्वा द्वादशावर्त्तवन्दनेन 'ततः' इत्युक्तविधेरनन्तरं 'गुरुम् ' आचार्यादिकं 'कायोत्सर्गं' चारित्रदर्शन श्रुतज्ञानशुद्धिनिमित्तव्युत्सर्गत्रयलक्षणं, जातावेकवचनं, 'ततः' गुरुवन्दनादनन्तरं कुर्यात्सर्वदुःखविमोक्षणम् । 'पारिये 'त्यादि पूर्वार्द्धं व्याख्यातमेव, स्तुतिमङ्गलं च सिद्धस्तवरूपं कृत्वा पाठान्तरं वा- 'सिद्धाणं संथवं किच्च 'त्ति सुगमं, 'कालम्' आगमप्रतीतं ‘संपडिलेहए’त्ति संप्रत्युपेक्षते, कोऽर्थः ? - प्रतिजागत्ति, उपलक्षणत्वाद्, गृह्णाति च, एवद्गतश्च विधिरागमादवसेयः ।
'पढम् 'मित्यादि प्राग्वद्, व्याख्यातमेव, नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।
कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यादित्याह-पौरुष्यां चतुर्थ्यां 'कालं' वैरात्रिकं 'तुः ' पूरणे 'पडिलेहिय'त्ति प्रत्युपेक्ष्य-प्रतिजागर्थ्य प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्यात् 'अबोधयन्' अनुत्थापयन् 'असंयतान्' अगारिणः, तदुत्थापने तत्पास्थानेषु तेषां प्रवर्त्तनसम्भवात् ।
?
पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाण इति शेष:, तत्र हि कालवेलायाः सम्भव इति न कालस्य ग्रहणं वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य 'कालं' प्राभातिकं, तुशब्दो वक्ष्यमाणविशेषद्योतकः, 'पडिलेहए 'त्ति प्रत्युपेक्षेत प्राग्वद् गृह्णीयाच्च, इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात्, अत्र च सम्प्रदायः
"ताहे गुरू उट्ठित्ता गुणंति जाव चरिमो जामो पत्तो, चरिमे जामे सव्वे उट्ठित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुवंति, पत्ते पाभाइए काले जो पाभाइयकालं घेच्छति सो कालस्स पडिक्कमिउं पाभाइयं कालं गिण्हइ, सेसा कालवेलाए कालस्स पडिक्कमंति, तओ आवस्वं कुणंति" मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम्, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ जघन्येनैकोऽप्यनुज्ञात एव, यत उक्तम्"कालचउक्क उक्कासएण जघन्नओ तिन्नि हुंति बोद्धव्वा । बीयपमि दुगं तु मायामयविप्पमुक्काणं ।'
11
अत्र च तुशब्दादेकस्याप्यनुज्ञा, तथा चूर्णिकार एव अमायाविनो तिन्नि वा अगेण्हंतस्स एक्को भवति" पठन्ति च
Jain Education International
"पढमा पोरसि सज्झायं, बीए झाणं झियायति । ततियाए निद्दमोक्खं च, चउभाए चउत्थए ॥१॥ कालं तु पडिलेहित्ता, अबोर्हितो असंजए । कुज्जा मुनी य सज्झायं सव्वदुक्खविमुक्खणं ॥२॥ पोरसीए चउभाए, सेसे वंदित्तु तो गुरुं ।
For Private & Personal Use Only
www.jainelibrary.org