________________
अध्ययनं - २७, [ नि. ४९१]
अध्ययनं २७ खलुङ्कीयं
वृ. व्याख्यातं षड्विंशमध्ययनं सम्प्रति सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने सामाचारी प्रतिपादिता, सा चाशठतयैव, पालयितुं शक्या, तद्विपक्षभूतशठताज्ञान एव च तद्विवेकेनासौ ज्ञायत इत्याशयेन दृष्टान्ततः शठतास्वरूपनिरूपणद्वारेणाशठतैवानेनाभिधीयत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ने निक्षेपे खलुङ्कीयमिति नाम, अतः खलुङ्कः (नामतः खल्लुक) निक्षेपायाह निर्युक्तिकृत्नि. [ ४९१ ] निक्खेवो खलुंकंमि चउव्विहो ॥ नि. [ ४९२ ]
१२५
जाण सरीरभविए तव्वइरित्ते बइल्लमाईसुं । पडिलोमो सव्वत्थेसु भावओ होइ उ खलुंको ।
वृ.
'निक्खवो' गाथाद्वयं व्याख्यातप्रायमेव, नवरं बलीवर्दादिष्वित्यादिशब्देनाश्वादिपरिग्रहः, निर्द्धारणे चेयं सप्तमी, ततो बलीवर्दादिषु यो गल्यादिरिति गम्यते स द्रव्यतः खलुङ्ग इति, 'प्रतिलोम:' प्रतिकूलः सर्वार्थषु, पाठान्तरतः 'सर्वस्थानेषु' ज्ञानादिषु भावतो भवति खलुङ्क इति गाथाद्वयार्थः ॥ तद्वयतिरिक्तद्रव्यखलुङ्कस्वरूपमाह
नि. [ ४९३ ]
नि. [ ४९४ ]
अवदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो अ। उप्पहविप्पहगामी एय खलुंका भवे गोणा ॥ जं किर दव्वं खुज्जं कक्कडगुरुयं तहा दुरवनामं । तं दव्वेसु खलुंकं वंककुडिलवेढमाइद्धं ॥ सुचिरंपि वंकडाई होर्हिति अनुज्जइज्जमाणाइं । करमंदिदारुआई गयंकुसा इव बिटाई ॥
नि. [ ४९५ ]
वृ. 'अवदालि' त्ति अवरदायति शकटं स्वस्वामिनं वा विनाशयतीत्येवंशीलोऽवदारी, उत्त्रसको यो यत्किञ्चनावलोक्योत्रस्यति, 'जुत्तजुगभंज' त्ति योत्रं - तथाविधसंयमनं युगंप्रतीतमेव ते भनक्ति-विशायति योत्रयुगभञ्जः, तथा तोत्रं प्राजनकस्तद्भनक्ति तोत्र भञ्जकश्च, उभयत्र 'कर्मण्यम्' ‘उत्पथविपथगामी' उत्पथः - उन्मार्गो विपथो विरूपमार्गस्ताभ्यां गमनशीलः, 'एते' अवदार्यादयः खलुङ्का 'भवन्ति' भवेयुः 'गोणाः' बलीवर्दाः, उपलक्षणत्वादश्वादयश्च । अमुमेव प्रकारान्तरेणाह - 'यदि' ति सामान्यनिर्देशे 'किले 'ति परोक्षाप्तवादसूचकः 'द्रव्यं' दार्वादि कुब्जमिव कुब्जं मध्यस्थूलतया कर्कशं च तत्कठिनतया गुरुकं चातिनिचितपुद्गलतया कर्कशगुरुकं, तथाऽत एव दुःखेनावनामयितुं शक्यत इति दुखनामं, करीरकाष्ठवत्, तद्रव्येषु खलुङ्कं वक्रमनृजुत्वात्, कुटिलं विशिष्टकौटिल्ययोगात् 'वेढमाइद्धं' ति मकारोऽलाक्षणिकस्ततश्च वेष्टैः-ग्रन्थिभिराविद्धं व्याप्तं वेष्टाविद्धम्, तेषां विशेषणसमासः ।
इहैव दृष्टान्तमाह- 'सुचिरमपि' प्रभूतकालमपि 'वंकडाइ 'न्ति वक्राणि, अवधारणाफलत्वाच्च वाक्यस्य वक्राण्येय भविष्यन्ति न कदाचिदृजुभावमनुभविष्यन्ति, 'अनुज्जइज्जमाणाइं'ति एकं स्वरूपतोऽनृजूनि अपरं च तेषां क्वचित्कार्येऽनुपयोगात्केनचिदनृजूक्रियमाणानि, कान्येवंविधानीत्याह- करमर्दी-गुल्मभेदस्तद्दारुकानि, तथा 'गयंकुसा इव बिटाई' ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org