________________
अध्ययनं - २५, [ नि. ४७४]
१०७
ये भवन्ति 'द्विजोत्तमाः' ब्राह्मणप्रधानास्ते 'समर्था:' शक्ता: 'तुः ' पूरणे उद्धर्तुं संसारादिति गम्यते अर्थान्मुक्तिपदे व्यवस्थापयितुं 'परम्' आत्मव्यतिरिक्तमात्मानमेव वेत्यष्टादशसूत्रगर्भार्थः ॥ अभिधाय चेदमवस्थितो भगवान्, ततश्च
मू. ( ९९७)
मू. (९९८ )
एवं तु संसए छिन्ने, विजयघोसे य बंभणे । समुदाय तओ तं तु, जयघोसं महामुनिं ॥ तुद्वेय विजयघोसे, इणमुद्दाहु कयंजली । माहणत्तं जहाभूयं, सुट्टु मे उवदंसियं ।। तुब्भे जइया जन्नाणं, तुब्भे वेयविदो विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ॥ तुब्भे समत्था उद्धत्तुं, परं अप्पाणमेव य । तमनुग्गहं करेहऽ म्हं, भिक्खू णं भिक्खुउत्तमा ।।
मू. (९९९)
मू. ( १००० )
वृ. सूत्रचतुष्टयं प्रतीतार्थम्, 'एवम्' उक्तप्रकारेण 'तुः' वाक्यान्तरोपन्यासे 'संशये' • प्रागभिहितरूपे 'छिन्ने' अपनीते 'विजयघोष: ' विजयघोषनामा 'च: ' पूरणे 'ब्राह्मण:' माहणः पठ्यते च-'माहने' 'समुदाय'त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येति योऽर्थः ‘तयं’ति तकां प्रक्रमाज्जयघोषवाचं, 'तं तु' त्ति तं च जयघोषं महामुनिं यथैष मम भ्राता एष एव च महामुनिरिति किं कृतवानित्याह- 'तुट्ठे' इत्यादि, केचित्त्वनन्तरसूत्रे तृतीयपादमेवं पठन्ति'संजाणंतो तओ तं तु' अत्र च 'संजानन्' स एवायं मम सौदर्य इति प्रत्यमिजानन्, युक्तं चैतद्, यतो वक्ष्यति सूत्रस्पर्शिकनिर्युक्तौ 'संजाणंतो भाई जयघोसं जायगो विजयघोसो 'त्ति, तथा 'तुष्टः' परितोषितः ‘च: ' पूरणे विजयघोषः 'इदं' वक्ष्यमाणम् 'उदाहु'त्ति 'उदाह' ब्रूते, तत्कालापेक्षया वर्त्तमानता, कृताञ्जलिः प्राग्वत्, यदाह तद्दर्शयति- ब्राह्मणत्वं 'यथाभूतं' यथाऽवस्थितं सु इति-शोभनं यथा भवत्येवं तिष्ठन्तीति सुष्ठु, औणादिकः कुप्रत्ययः, 'मे' मम 'उपदर्शितम्' इति प्रकटितम् ।
किञ्च यूयं 'जइय'त्ति यष्टारो यज्ञानां, यूयं 'वेदविदः ' वेदज्ञा: 'विदु'त्ति विद्वांसः, यद्वा ‘विदः' यथाऽवस्थितवस्तुवेदिनो !, ज्योतिषाङ्गविदो यूयं, यूयं 'धर्माणां' सदाचाराणां पारगाः, भवतामेव तत्त्ववेत्तृत्वेन सर्वशास्त्रावारिधिपारदर्शित्वान्निर्वाहितसदाचारत्वाच्चेत्यभिप्राय:, तथा यूयं समर्था उद्धर्तुं परमात्मानमेव च, युष्माकमेव तात्त्विकगुणसमन्वितत्वात्, 'तत्' तस्माद् 'अनुग्रहं' भिक्षाग्रहणेनोपकारं 'कुरुत' विधत्तास्माकं 'भिक्षो!' तपस्विन्! नमिति वाक्यालङ्कारे 'भिक्षूत्तम' यतिप्रधान !, यदिवा भिक्षूणामुत्तमेति सम्बन्धः 'भिक्षु' त्ति भिक्षो ! इति सूत्रचतुष्टयार्थः ॥ एवं ब्राह्मणेनोक्ते मुनिराहमू. (१००१ )
मू. (१००२)
न कज्जं मज्झ भिक्खेणं, खिप्प निक्खमसू दिया। मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ अवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भइ संसारे, अभोगी विप्पमुच्चई ॥ उल्लो सुक्को य दो छूढा, गोलया मट्टियामया ।
मू. (१००३ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org