________________
१०८
उत्तराध्ययन-मूलसूत्रम्-२-२५/१००३ दो वि आवडिया कुडे, जो उल्लो सोऽत्थ लागई। म.(१००४) एवं लागंति दुम्मेहा, जे नरा कामलालसा।
विरत्ता उ न लग्गति, जहा से सुक्कगोलए। वृ. 'न'त्यादि सूत्रचतुष्टयम्, 'न कार्य' न प्रयोजनं मम 'भिक्खेणं'ति भिक्षया समदानेन, किन्तु 'क्षिप्रं' शीघ्रं 'निष्क्राम' प्रव्रज 'द्विज ! ब्राह्मण !, भवन्निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-'मा भ्रमी:' मा पर्यटी:, आर्षत्वाच्च सूत्रे लुटः प्रयोगः, यदिवा मा भ्रमीष्यसीत्यपि न दुष्टं, यतो माङिलुडुक्तोऽयं तु मा, भयानिइहलोकभयादीनि आवर्ता यस्मिन्नसौ भयावतस्तत्र 'घोरे' रौद्रे, पठ्यते च-'भवावत्ते दीहे'त्ति, अत्र च भवामनुष्यभवादयः, अन्यत्प्राग्वत, दीर्घ' आयते 'संसारसागरे' भवसमुद्रे, अनेन च विपर्ययदोष उक्तः । एतदेव समर्थयितुमाह
'उपलेपः' कर्मोपचयरूपो भवति ‘भोगेसु' शब्दादिषुभुज्यमानेष्विति गम्यते, भोगीशब्दादिभोगवान्न तथाऽभोगी 'न' नैव उपलिप्यते' कर्मणोपदिह्यते, ततश्च भोगी भ्रमति संसारे अभोगी विप्रमुच्यते, मुक्तो भवतीत्यर्थः, इह च गृहस्थभावे भोगित्वं निष्क्रमणे तु तदभाव इति गृहिभावस्य सदोषत्वान्निष्क्रमणमेव युक्तमित्युक्तं भवति । यथा भोगेषूपलेपस्तदभावे चान्यथात्वं तथा दृष्टान्तद्वारेण दर्शयितुमाह-'उल्लो'त्ति आर्द्रः शुष्कश्चअनार्दो द्वावभो 'छुढ'त्ति क्षिप्तौ 'गोलकौ' पिण्डको मृत्तिकामयौ, द्वावपि ‘आपतितौ' प्राप्तौ 'कुड्ये' भित्तौ, ततः किमित्याह-य आर्द्रः सो 'अत्रे'त्यनयोर्मध्ये 'लगति' श्लिष्यति प्रक्रमात्कुड्ये। ___ दार्टान्तिकयोजनामाह-एवं लगन्ति प्रस्तावात्कर्मणा 'दुर्मेधसः' दुर्बुद्धयो ये नराः 'कामलालसाः' विषयलम्पटाः, विरक्तास्तुशब्दस्य पुनरर्थत्वात्कामभोगपराङ्मुखाः पुनर्न लगन्ति, उत्तरत्र तुशब्दस्य भिन्नक्रमात्वेनैवकारार्थतया च नैव कर्मणा संश्लिष्यन्ते यथा शुष्को गोलकः, इह चान्वयानन्तरं व्यतिरेकः सुखेनैव बुध्यत इति तमुक्त्वा प्रथममुत्क्षिप्तस्यापि दृष्टान्तस्य पश्चादभिधानमिति सूत्रचतुष्टयार्थः । यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाहमू.(१००५) . एवं से विजयघोसे, जयघोसस्स अंतिए।
अनगारस्स निक्खंतो, धम्म सुच्चा अनुत्तरं।। वृ. 'एवम्' उक्तप्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्य अन्तिके' समीपे 'अनगारस्य' यतेः 'निष्क्रान्तः' प्रव्रजितः 'धर्मम्' अहिंसादि 'श्रुत्वा' आकर्ण्य 'अनुत्तरं' प्रधानं, पठ्यते च-'सोच्चा न केवलं'ति, तत्र च 'केवलं' विशुद्धमिति सूत्रार्थः ।।
सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहमू.(१००६) खवित्ता पुवकम्माई, संजमेण तवेण य।
जयघोसविजयघोसा, सिद्धि पत्ता अनुत्तरं ।। त्तिबेमि। वृ.सुगममेव॥ सकलाध्ययनतात्पर्यार्थमुपदर्शयन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत्नि.[ ४७५] अह एगराइआए पडिमाए सो मुनि विहरमानो।
वसुहं दूइज्जतो पत्तो वाणारसिं नयरिं।। नि.[ ४७६] सो उज्जाणनिसन्नो मासक्खमनेण खेइयसरीरो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org