________________
१०६
उत्तराध्ययन- मूलसूत्रम् - २-२५/९९६ यतः ‘कर्माणि' ज्ञानावरणादीनी 'वलवन्ति' दुर्गतिनयनं प्रति समर्थानि 'इहे'ति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुबन्धादि प्रवर्त्तनेन तयोस्तद्बलाधायकत्वादिति भावः, अनेन दुर्गतिहेतुत्वात्स्वर्गहेतुत्वमप्यनयोः प्रत्युक्तम्, उक्तं हि
"यूपं छित्त्वा पशुं हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं प्राप्यते स्वर्गो, नरके केन गम्यते ? ॥'
अतो नैतद्योगाद्ब्राह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्चनेति निषेधे 'अपि : ' पूरणे 'मूण्डितेन' केशापनयनात्मकेन समं मनोऽस्येकति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव ॐकारो (रेणो) पलक्षणत्वाद् 'ॐ भूर्भुवः स्व' रित्याद्युच्चारणरूपेण ब्राह्मण:, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरं कुशचीवरं, बल्कलोपलक्षणम्कतत्, तेन तापसः, अनूदितं चैतद्वाचकैः
"मुण्डनात् श्रमणो नैव, संस्काराद्ब्राह्मणो न वा । मुनिर्नारण्यवासित्वाद्वल्कलान्न च तापसो ॥
भवतीति सर्वत्र शेषः । कथममी तर्हि संभवन्तीत्याह- 'समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्य, ब्रह्म च द्विधा, यत उक्तम्
"द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत् । शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥"
एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसा' बाह्याभ्यन्तरभेदभिन्नन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतु:, ननु चान्वर्थवत्त्वेऽभिधानस्यैष हेतु:, तच्चान्यथाऽपि डित्थादिवत्स्यादत आह- 'कर्मणा' क्रियया ब्राह्मणो भवति, उक्तं हि'क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिर्धृ (दया घृणा । ज्ञानविज्ञानमास्तिक्यमेतद्ब्रह्मणलक्षणम् ॥'
14
""
तथा ‘कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः 'कर्मणा ' कृषिपाशुपाल्यादिना भवति, शूत्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रैषादिसंपादनरूपेण, कर्माभावे हि ब्राह्मणादिव्यपदेशा नाऽऽसन्नेवेति, ब्राह्मणप्रक्रमेऽपि यच्छेषाभिधानं तन्मा भूनिरनुक्रोशतेति व्याप्तिदर्शनार्थं, किञ्च-भवन्मतेऽप्युक्तम्
"एकवर्णमिदं सर्वं पूर्वमासीद्युधिष्ठिर ! ।
क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥”
किमिदं स्वमनीषिकयैवोच्यते इत्याह- 'एतान्' अनन्तरोक्तानहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्ध:' अवगततत्त्वः, पठ्यते च 'एए पाउकरा धम्मा' 'एते' उक्तरूपाः 'प्रादुष्कराः' नैर्मल्यकारितयाऽऽत्मनः प्रकाशहेतवः 'धर्माः' अहिंसादयो, यैर्भवति 'स्नातकः ' केवली सर्वकर्मभिर्विनिर्मुक्तः, इह च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तः, सुब्व्यत्ययात्प्रथमार्थे द्वितीया, 'त' मित्यभिहितगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्राह्मणम् । सम्प्रत्युपसंहर्त्तुमाह-‘एवम्' उक्तप्रकारेण गुणैः - अहिंसादिभिः समायुक्ताः - समन्विता गुणसमायुक्ता
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International