________________
अध्ययनं-२५,[ नि. ४७४]
१०५ इति 'चित्तवत्' द्विपदादि अचित्तं च' स्वर्णादि 'अल्पं वा' सङ्ख्यया प्रमाणेन च स्तोकं यदिवा ‘बहुं' ताभ्यामेव प्रचुरं न गृह्णाति ‘अदत्तम्' अनिसृष्टं यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्
"परद्रव्यं यदा दृष्ट्वा , आकुले ह्यथवा रहे।
धर्मकामो न गह्णाति, ब्रह्म सम्पद्यते तदा ।।" अन्यश्च-दिव्यविषयत्वाद्दिव्यं मानुषविषयत्वान्मानुष तिर्यक्षु भवं तैरश्चमेषां समाहारो दिव्यमानुषतैरश्चं यो न सेवते मैथुनं 'मनसा' चित्तेन कायश्च-शरीरं वाक्यं च-वचनं कायवाक्यं तेन तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्युक्तम्
"देवमानुपतिर्यक्षु, मैथुनं वर्जयेद्यदा।
कामरागविरक्तश्च, ब्रह्म सम्पद्यते तदा॥" अपि च-यथा 'पद्मं' कमलं जले उपलक्षणत्वाज्जलमध्ये 'जातम्' उत्पन्नं तत्परित्यागत उपरिव्यवस्थानतः 'नोपलिप्यते' न श्लिष्यते 'वारिणा' जलेन, 'एव'मिति पद्मवत् अलित्त'त्ति अलिप्तः-अश्लिष्ट: काम्यमानत्वात् कामैः-मनोज्ञैः शब्दादिभिराबाल्यात् तैरेव वृद्धि नीयमानतया तन्मध्योत्पन्नोऽपि यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्यभिधायि
"यदा सर्वं परित्यज्य, निस्सङ्गो निष्परिग्रहः ।
निश्चिन्तश्च चरेद्धर्मं, ब्रह्म सम्पद्यते तदा ।"इति ___ इत्थं मूलगुणयोगात्तात्त्विकं ब्राह्मणमभिधायोत्तरगुणयोगतस्तमेवाह-'अलोलुपम्' आहारादिप्वलम्पटं 'मुहाजीवि'त्ति सुब्यत्ययात् 'मुधाजीविनम्' अज्ञातोञ्छमात्रवृत्ति, पठ्यते च'मुहाजीवि'त्ति अनगारमकिञ्चिनं प्राग्वत् 'असंसक्तम्' असंबद्धं, कैः? -गृहस्थैः, तृतीयार्थे सप्तमी विषयसप्तमी वा, अनेन काक्वा पिण्डविशुद्धिरूपोत्तरगुणयुक्तत्वमुक्तं, 'तम्' उक्तगुणयुक्तमप्येवंविधं सन्तं वयं ब्रूमो ब्राह्मणं, क्वचित् पठ्यते च
'जहित्ता पुव्वसंजोगं, नाइसंगे य बंधवे।
'जो न सज्जइ भोएहि, तं वयं बूम बंभणं ॥' अत्र 'पूर्वंसंयोग' मात्रादिसम्बन्धं ज्ञातिसंयो-गान्' स्वस्रादिसम्बन्धान्, च-शब्दो भिन्नक्रमस्ततः ‘बान्धवांश्च' भ्रात्रादीन्, शेषं स्पष्टम्, अनेन चातिनि:स्पृहताभिधानेनोत्तरगुणा अप्याक्षिप्ता भवन्ति।
स्यादेतद्-वेदाध्ययनं यजनं च भवात्रायकमिति तद्योगादेव पात्रभूतो ब्राह्मणो न तु यथा त्वयोक्त इत्याशङ्कयाह-पशूनां-छागानां बन्धो-विनाशाय नियमनं यैर्हेतुभिस्तेऽमी पशुबन्धाः 'श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिव्कायोपलक्षिताः, पाठान्तरतः पशवो बद्धा यैस्ते आहिताग्न्यादेराकृतिगणत्वात् क्तान्तस्य परनिपाते पशुबद्धाः, न तु ये आत्मा वारे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवाक्योपलक्षिताः 'सर्ववेदाः' ऋग्वेदादयः 'जटुं'ति इष्टं यजनं 'वा' समुच्चये 'पापकर्मणा' पापहेतुभूतपशुबन्धाद्यनुष्ठानेन तु हरिकेशीयाध्ययनोक्तविधिनेतिभावः, किमित्याह-'न' नैव 'त'मिति प्रक्रमाद्वेदाध्येतारं यष्टौरं वा 'त्रायन्ते' रक्षन्ति भवादिति गम्यते, किंविशिष्टं ? -'दुःशीलं' ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं, किमिति?For Private & Personal Use Only
www.jainelibrary.org
Jain Education International