________________
१०४
उत्तराध्ययन-- मूलसूत्रम्- -२-२५/९९६ सन् 'सदा' सर्वकालम्, उपसंहारमाह- कुशलैः- तत्त्वाभिज्ञैः संदिष्टः कथितः कुशलसन्दिष्टस्तं 'तम्' इत्युक्तरूपं वयं ब्रूमो ब्राह्मणं, यदेव हि लोके विज्ञोपदिष्टं तदेव वस्त्वभ्युपगमार्हमिति
भावः ।
इत इत्तरसूत्रैर्यादृशोऽसौ कुशलसन्दिष्टस्तत्खरूपमेव क्वचित्कथञ्चिदनुवदन् स्वाभिमतं ब्राह्मणमाह-यो न स्वजनेनाभिष्वङ्गं करोति 'आगन्तुं' प्राप्तुं स्वजनादिस्थानमिति गम्यते, आगतो वा, ततः ‘प्रव्रजन्’ स्थानान्तरं गच्छन्न शोचते, यथा-कथमहममुना बिना भविष्यामीति, तत एव रमते आर्याणां तीर्थकृतां वचनमार्यवचनम् आगमस्तस्मिन्, किमुक्तं भवति ? - सर्वत्र निःस्पृहत्वेनागमार्थानुष्ठानपरतया तत्र रतिमान् भवति, यद्वा यो न सजत्यागन्तुं प्रव्रज्यापर्यायाद्गार्हस्थ्य पर्यायमिति गम्यते, तथा 'प्रव्रजन्' प्रव्रज्यां गृह्णन् न शोचते -न खिद्यते, किन्त्विदमेव मनुजजन्मफलमिति मन्यमानः स रभसैवाभिनिष्क्रामति, शेषं तथैव, व्याख्या द्वयेऽपि च निःस्पृहतैवोच्यते ।
तथा 'जातरूपं' स्वर्ण ततो जातरूपमिव जातरूपं, यः कीदृशः सन् ? - 'महामट्ठे' त्ति मकारस्यालाक्षणिकत्वान्महानर्थ:-प्रयोजनं मुक्तिरूपमस्येति महार्थो, जातरूपस्य त्वर्थो विषयघातादि:, तथा 'निद्धंतमलपावकं' निर्ध्यातं-भस्मीकृतं ततो निर्मातमिव निर्ध्यातं मल इवात्मनो विशुद्धस्वरूपघातितया पापमेव पापकं येनासौ निर्ध्यातमलपापको, जातरूपं तु प्राकृतत्वात् पावकेन - अग्निना निर्मातो मल:- किट्टात्मकोऽस्येति पावकनिर्मातमलम्, अन्यच्च-रागश्चप्रतिबन्धात्मको द्वेषश्च - अप्रीतिरूपो भयं च - इहलोकभयादि रागद्वेषभयानि तान्यतीतोनिष्क्रान्तो रागद्वेषभयातीतो रागदिरहित इत्यर्थः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, पठ्यते च‘जातरूवं जहामट्टं’ति ‘यथे'त्यौपम्ये आमृष्टं-तेजःप्रकर्षारोपणाय मनः शिलादिना समन्तात्परामृष्टम्, अनेन जातरूपस्य बाह्यो गुण उक्तः, पावकनिर्ध्यातमलमिति चान्तरः, ततो जातरूपवद्वाह्यान्तरगुणान्वितः, अत एव रागीद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ।
किञ्च - त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्क्षेपेण चशब्दाद्विस्तरेण च, तथा 'स्थावरान् ' पृथिव्यादीन्, यदिवा संगृह्यत इति सङ्ग्रहो वर्षाकल्पादिस्तेन हेतुना, जीवरक्षार्थत्वात्तस्य, च - शब्दो भिन्नक्रम:, तत एव स्थावरांश्च, पठ्यते च - 'संगहेण सथावरे' त्ति 'संस्थावरान्' स्थावरसहितान् यो ‘न हिनस्ति' न व्यपरोयति 'एतान्' अनन्तरमुक्तरूपान् 'तुः' पूरणे, पठ्यते च'विविधेन' मनोवाक्कायरूपतया योगेनेति गम्यते तं वयं ब्रूमो ब्राह्मणं, तथा चारण्यकेऽप्युक्तम्"यदा न कुरुते पापं, सर्वभूतेषु दारुणम् ।
कर्मणा मनसा वाचा, ब्रह्म सम्पद्यते तदा ।। "
तथा क्रोधादिभ्यो मृषा न वदति यस्तु तं वयं ब्रूमो ब्राह्मणम्, इह च मानस्य क्रोधो मायायाश्च लोभ उपलक्षणं, प्रायस्तत्सहचरितत्वात्तयोः, तथा च तत्राप्यवाचि
(किञ्च)
Jain Education International
"यदा सर्वानृतं त्यक्तं, मिथ्याभाषा विवर्जिता । अनवद्यं च भाषेत्, ब्रह्म सम्पद्यते तदा ।। " "अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥"
For Private & Personal Use Only
www.jainelibrary.org